Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
S
समादाय धुनीयात् शरीरकं, औदारिकं कार्मणं वा । प्रान्तं रूक्षं सेवन्ते वीराः समत्वदर्शिनः सम्यग्दर्शिनो वा । एष ओघन्तरो - भावौघं संसारं तरति मुनिः । तीर्णो मुक्तो विरतो व्याख्यात इति ब्रवीमि ॥१५६॥ - ॥ अध्ययनं - ५ : उद्देशकः -४ ॥
अनन्तरं विरत एव मुनिर्भवतीति प्रतिपादितम् । इह एकचरस्य मुनित्वाऽभावे दोषोद्भावनतः
कारणमाह -
-
गामाणुगामं दूइजमाणस्स दुज्जायं दुप्परकंतं भवइ अवियत्तस्स भिक्खुणो ॥१५७॥
ग्रामानुग्राम दूयमानस्य-विहरती दुर्यातम् अर्हन्नकस्येव दुष्टव्यन्तरीजङ्घाछेदवत्, दुष्पराक्रान्तं - स्थूलभद्रेर्ष्याश्रितोपकोशागृहसाधोरिव दुष्टं पराक्रान्तं स्थानमेकाकिनो भवति अव्यक्तस्य श्रुतवयोभ्याम् भिक्षोरिति ।। १५७|| एवमजातसूत्रवयःपक्षस्तीर्थिकध्वाङ्गादिभिर्विलुप्यते गच्छालयान्निर्गतो वाङ्मात्रेणापि चोदितः सन् इति एतदर्शयितुमाह -
वयसावि एगे बुइया कुंप्पंति माणवा, उन्नयमाणे य नरे महया मोहेण मुज्झइ, संबाहा बहवे भुजो २ दुरइक्कम्मा अन्नाणओ अपासओ, एयं ते मा होउ, एयं कुसलस्स दंसणं, तद्दिट्ठिए तम्मुत्तिए तप्पुरक्कारे तस्सन्नी तन्निवेसणे, जयं विहारी चित्तनिवाइ पंथनिज्झाइ पलिबाहिरे, पासिय पाणे गच्छिज्जा ॥१५८ ॥
६४
वचसाऽपि एके उक्ताः - चोदिताः कुप्यन्ति मानवाः । उन्नतो मानो यस्य स उन्नतं वाऽऽत्मानं मन्यते इति उन्नतमानः अथवा उन्नम्यमानः केनचित् नरो महता मोहेन मुह्यति । सम्बाधाः बह्वयो भूयो भूयः स्युर्दुरतिक्रमाः अजानतः अपश्यतः 1 एतत् बाधादुरतिक्रमणीयत्वम् ते मा भवतु । एतत्-पूर्वोक्तमुपदेशरूपं कुशलस्य श्रीवर्धमानस्वामिनो दर्शनम् । तस्मात् तद्दृष्ट्या आचार्यदृष्ट्या, अग्रेऽपि तदाऽऽचार्यपरामर्शः तन्मुक्त्या तदुक्तसर्वसङ्गमुक्त्या, तत्पुरस्कारः सर्वकार्येषु तं पुरस्कर्तुं शीलमस्येति, तत्संज्ञी - तस्य संज्ञा ज्ञानं तद्वान्, तन्निवेशनः गुरोर्निवेशनस्थानं यस्य स सदा गुरुकुलवासी स्यात् । यतमानो विहारी स्यात्, चित्तनिपाती - आचार्याभिप्रायेण निपतितुं - प्रवर्तितुं शीलमस्येति, पथनिर्ध्यायी - क्वचिद्गतस्य गुरोः पन्थानं
* श्री आचाराङ्गसूत्रम् ( अक्षरगमनिका )

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126