Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
सोऽहं ब्रवीमि-ये अतीता ये च प्रत्युत्पन्ना ये च आगमिष्यन्तः अर्हन्तो भगवन्तस्ते सर्वे एवमाचक्षते, एवं भाषन्ते, एवं प्रज्ञापयन्ति, एवं प्ररूपयन्ति - सर्वे प्राणिनः सर्वे भूताः सर्वे जीवाः सर्वे सत्त्वा न हन्तव्याः, न आज्ञापयितव्याः, न परिग्राह्याः, न परितापयितव्याः, न अपद्रावयितव्याः । एष धर्मः शुद्धो नित्यः शाश्वतः, समेत्य - ज्ञात्वा लोकं दुःखसागरावगाढं खेदज्ञैः प्रवेदितः, तद्यथा - उत्थितेषु वा - गणधरादिषु, अनुत्थितेषु वा गृहस्थेषु, उपस्थितेषु वा - चिलातिपुत्रादिषु, अनुपस्थितेषु वा इन्द्रनागादिषु, उपरतदण्डेषु वा - यतिषु स्थैर्यगुणान्तराधानार्थं, अनुपरतदण्डेषु-गृहिषु, सोपधिकेषु वा द्रव्यतो हिरण्यादि भावतो माया तद्वत्सु, अनुपधिकेषु वा - अनगारेषु, संयोगरतेषु पुत्रकलत्रादिसंयोगवत्सु, असंयोगरतेषु निःसंङ्गेषु वा तथ्यं चैतत् तथा चैतद् यथा भगवान जगाद । अस्मिन् मौनीन्द्रप्रवचने चैतद् - सर्वे प्राणिनो न हन्तव्या इत्यादि प्रोच्यत । एवं सम्यग्दर्शनं विधेयमिति ॥१२७।।
तदेवं सम्यक्त्वस्वरूपमभिधाय तदवाप्तौ यत् कर्तव्यं तदर्शयितुमाह -
तं आइत्तु न निहे न निक्खिवे जाणित्तु धम्मं जहा तहा, दिडेहि निव्वेयं गच्छिज्जा, नो लोगस्सेसणं चरे ॥१२८॥
तद्-सम्यग्दर्शनम् आदाय न गोपयेद् न निक्षिपेत् - त्यजेद् ज्ञात्वा धर्म - श्रुतचारित्ररूपं वस्तूनां वा स्वभावं यथातथा दृष्टेषु- रूपादिषु निर्वेदं गच्छेद् नो लोकस्यैषणां चरेदिति ॥१२८॥
यस्य चैषा लोकैषणा नास्ति तस्यान्याप्यप्रशस्ता मतिर्नास्तीति दर्शयति -
जस्स नत्थि इमा जाइ अण्णा तस्स कओ सिया ?, दिळं सुयं मयं विण्णायं जं एवं परिकहिज्जइ, समेमाणा पलेमाणा पुणो पुणो जाइं पकप्पंति ॥१२९॥
यस्य नास्ति इयं ज्ञातिः- लोकैषणाबुद्धिः अन्या - सावधप्रवृत्तिस्तस्य कुतः स्यात् ? यदिवा इयं ज्ञातिः - सम्यक्त्वमर्तियस्य नास्ति अन्या - विवेकिनी बुद्धिस्तस्य कुतः स्यात् ? दृष्टं श्रुतं मतं विज्ञातं यद् एतत् - सम्यक्त्वादिकं परिकथ्यते गणधरादिभिस्तत्र यत्नवता भवितव्यम् । ये पुनर्विषयलम्पटाः सावद्यारम्भप्रवृत्ताः स्युस्ते तस्मिन्नेव मनुष्यादिजन्मनि शाम्यन्तस्तथा मनोजेन्द्रियार्थेषु प्रलीयमानाः पुनः पुनः एकेन्द्रियादिकां जाति प्रकल्पयन्ति - विदधतीति ॥१२९।।
५०
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126