Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 60
________________ एवं सति किं कर्तव्यमित्याह - अहो अराओ य जयमाणे धीरे सया आगयपण्णाणे पमत्ते बहिया पास, अप्पमते सया परिक्कमिजासि त्ति बेमि ॥१३०॥ अहश्च रात्रिं च यतमानो धीरः सदा आगतप्रज्ञानः - स्वीकृतसदसद्विवेकस्त्वं प्रमत्तान् बहिः पश्य, तांश्च दृष्ट्वा अप्रमत्तः सन् सदा पराक्रमेथा इति ब्रवीमि ।।१३०॥ . ॥ अध्ययनं-४ : उद्देशकः-२ ॥ इह सम्यक्त्वमधिकृतं तत्र संसारमोक्षकारणे आश्रवनिर्जरे दर्शयितुमाह - जे आसवा ते परिस्सवा, जे परिस्सवा ते आसवा, जे अणासवा ते अपरिस्सवा, जे अपरिस्सवा ते अणासवा, एए पए संबुज्झमाणे लोयं च आणाए अभिसमिचा पुढो पवेइयं ॥१३१॥ ये आश्रवास्ते परिश्रवाः - निर्जरास्पदानि भरतस्येव, ये परिश्रवास्ते आश्रवाः कण्डरिकस्येव, येऽनाश्रवाः - व्रतविशेषास्तेऽपि कर्मणः अपरिश्रवाः कोङ्कणार्यप्रभृतीनामिव, ये अपरिश्रवास्ते कणवीरलताभ्रामकक्षुल्लकस्येव अनाश्रवा भवन्तीति । यदिवा कर्माणि आश्रवन्तीत्याश्रवाः - बन्धका एव परिश्रवन्तीति परिस्रवाः - निर्जरकाः । अत्र चतुर्भतिका - प्रथम भङ्गपतिताः सर्वेऽपि चतुर्गतिकाः संसारिणस्तेषां प्रतिक्षणमुभयसद्भावात् तथा ये. आश्रवास्तेऽपरिस्रवा इति शून्योऽयं द्वितीयभङ्गको बन्धस्य शाटाविनाभावित्वात्, एवं येऽनास्रवास्ते परिस्रवाः एते च अयोगिकेवलिनस्तृतीयभङ्गपतिताः, चतुर्थभङ्गपतितास्तु सिद्धाः तेषामुभयाभावात् । एतानि पदानि संबुध्यमानस्तथा लोकं चाऽऽज्ञया अभिसमेत्य पृथक् पृथक् प्रवेदितं आश्रवोपादानं निर्जरोपादानं च ज्ञात्वा को नाम धर्मचरणं प्रति नोद्यच्छेदिति ? ||१३१।। एतानि पदानि तीर्थकरगणधरैः प्रवेदितानि, अन्योऽपि तदाज्ञावर्ती चतुर्दशपूर्वादिः सत्त्वहिताय परेभ्य आवेदयतीत्येतद्दर्शयितुमाह - .. आघाइ नाणी इह माणवाणं संसारपडिवण्णाणं संबुज्झमाणाणां विन्नाणपत्ताणं, अट्टावि संता अदुवा पमत्ता अहा सच्चमिणं ति बेमि, नाणागमो मच्चुमुहस्स अत्थि, इच्छापणीया वंकानिकेया कालगहिया निचयनिविट्ठा पुढो पुढो जाइं पकप्पयंति (एत्थ मोहे पुणो पुणो) ॥१३२॥ - श्री आचारागसूत्रम् (अक्षरगमनिका) * ५१

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126