Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
सर्वज्ञा वीरास्ते समिताः सहिताः ज्ञानादिभिः सदा यता निरन्तरदर्शिन
आत्मोपरता यथातथं लोकं - चतुर्दशरज्ज्वात्मकं कर्मलोकं वा उपेक्षमाणाः - - पश्यन्तः प्राच्या प्रतीच्यां दक्षिणस्यां उदीच्यां व्यवस्थिता इत्येवं सत्ये- ऋते तपसि संयमे वा परिचिते तस्थुः । तेषां सत्यवतां कथयिष्यामि ज्ञानं - अभिप्रायो वीराणां समितानां सहितानां सदा यतमानानां निरन्तरदर्शिनाम् आत्मोपरतानां यथातथं लोकं समुपेक्षमाणानाम् किमस्ति उपाधिः कर्मजनितः ? आहोस्विद् न विद्यते ? इति प्रश्ने त ऊचुः - पश्यकस्य न विद्यते, नास्तीति-ब्रवीमि ॥१४१।।
॥५॥ लोकसाराध्ययनं- : उद्देशकः-१ ॥ अनन्तरं ज्ञानं प्रतिपादितं तस्य च चारित्रफलत्वात् तत्पालनार्थं च अचारित्रिणां दोषानाह -
आवंती केयावंती लोयंसि विप्परामुसंति अट्ठाए अणट्ठाए, एएसु चेव विप्परामुसंति, गुरु से कामा, तओ से मारते, जओ से मारते तओ से दूरे, नेव से अंतो नेव दूरे ॥१४२॥
यावन्तः केचन जीवा लोके विपरामृशन्ति - हिंसन्ति अर्थाय अनर्थाय वा एतेषु चैव विपरामृशन्ति - यान् जीवान् हिंसन्ति तेष्वेव जीवयोनिषूत्पद्यन्ते हिंसाफलं च दुःखमनुभवन्ति । नागार्जुनीयास्तु पठन्ति - 'जावंति केइ लोए छक्कायवहं समारंभति अट्ठाए अणट्ठाए वा' इत्यादि गतार्थम् । यतो गुरवस्तस्य कामाः, ततः स मारान्ते वर्तते, यतः स मारान्ते ततः स परमपदात् तदुपायाच्च सुखाद्वा दूरे । सम्यग्दृष्टिरेतत्प्रणेता वा नैव स अन्ते नैव दूरे भिन्नग्रन्थित्वात् घातिकर्मक्षयाद्वेति ।।१४२।।
___ यो हि भिन्नग्रन्थिको दुरापावाप्तसम्यक्त्वः संसारारातीयतीरवर्ती स किमध्यवसायी स्यादित्याह -
से पासइ फुसियमिव कुसग्गे पणुन्नं निवइयं वाएरियं एवं बालस्स जीवियं मंदस्स अवियाणओ, कुराई कम्माई बाले पकुब्बमाणे, तेण दुक्खेण मूढे विप्परिआसमुवेइ, मोहेण गन्भं मरणाइ एइ, एत्थ मोहे पुणो पुणो ॥१४३॥
स पश्यति पृषदिव - उदकबिन्दुमिव कुशाग्रे प्रणुन्नं वातेरितं निपतितम् एवं बालस्य जीवितं मन्दस्य अक्जिानतः । परमार्थमजानानः क्रूराणि कर्माणि
श्री आचाराणसूत्रम् (अक्षरगमनिका) *
५७

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126