Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 61
________________ आख्याति ज्ञानी इह मानवानां संसारप्रतिपन्नानां सम्बुध्यमानानां विज्ञानप्राप्तानां - संज्ञिभ्यो मुनिसुव्रतस्वामिघोटकदृष्टान्तेन । नागार्जुनीयास्तु पठन्ति - “आघाइ धम्म खलु से जीवाणं तंजहा संसारपडिवन्नाणं माणुसभवत्थाणं आरंभविणईणं दुक्खुव्वेअ-सुहेसगाणं धम्मसवणगवेसयाणं सुस्सुसमाणाणं पडिपुच्छमाणाणं विण्णाणपत्ताणं" एतच्च प्रायो गतार्थमेव... नवरमारम्भविनयिनामारम्भविनयः - आरम्भाभावः स विद्यते येषामिति मत्वर्थीयस्तेषामिति । यथा च ज्ञानी धर्ममाचष्टे तथा दर्शयति - आर्ता अपि सन्तः चिलातिपुत्रादय इव अथवा प्रमत्ता अपि शालिभद्रादय इव प्रतिपद्यन्ते यथा - सत्यमिदं कथ्यमानं कथितं चेति ब्रवीमि, नांऽनागमो मृत्युमुखस्य अस्ति । इच्छाप्रणीताः .. इच्छया संसाराभिमुखप्रणिताः, वक्रनिकेताः - पूर्वपदस्य दीर्घत्वात् असंयमस्याऽऽश्रयाः, कालगृहीताः - मृत्युना गृहीता धर्मचरणाय वा गृहीतो वृद्धावस्थादिरूपः कालो यैस्ते, निचयनिविष्टाः . धनादिनिचये निविष्टाः पृथक् पृथक् एकेन्दियादिजाति प्रकल्पयन्ति - प्रकुर्वन्ति । पाठान्तरं वा ‘एत्थ मोहे पुणो पुणो' तथा च - अत्र इच्छाप्रणीतादिके निमग्नाः पुनः पुनस्तत्कुर्वन्ति येन मोहाऽप्रच्युतिः कर्माऽप्रच्युतिर्वा स्यादिति ॥१३२॥ तदप्रध्युतौ च किं स्यादित्याह - इहमेगेसि तत्थ तत्थ संथवो भवइ अहोववाइए फासे पडिसंवेयंति, चिटुं कम्मेहिं कूरेहिं चिटुं परिचिट्ठइ, अचिटुं कूरेहि कम्मेहिं नो चिट्ठ परिचिट्ठइ, एगे वयंति अदुवावि नाणी, नाणी वयंति अदुवावि एगे ॥१३३॥ ___ इहैकेषां तत्र तत्र - नरकतिर्यग्गत्यादिषु संस्तवो भवति, ततः किमित्याह - अधऔपपातिकान् - नरकादिभवान् स्पर्शान्- दुःखान् प्रतिसंवेदयन्ति । किं सर्वः अध औपपातिकान् स्पर्शान् प्रतिसंवेदयति आहोश्चित् कश्चिदेव ? न सर्व इति दर्शयति - यो भृशं कर्मभिः क्रूरैः वधबन्धादिभिर्वर्तते स भृशं तमस्तमादिस्थानेषु परितिष्ठति - उत्पद्यते, यस्तु न भृशं क्रूरैः कर्मभिर्वर्तते स न भृशं नरकेषु परितिष्ठति, इत्येके चतुर्दशपूर्वविदादयो वदन्ति अथवापि यद् ज्ञानी - केवली भाषते तदेव ज्ञानिनः श्रुतकेवलिनो वदन्ति अथवापि एके श्रुतकेवलिनो यद् वदन्ति तदेकमेव ।।१३३॥ " ५२ * श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126