Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
हन्ता स्यात्, न विघातयेत् । यदिदं अन्योन्यविचिकित्सया - परस्पराऽऽशङ्कातो लज्जातो वा प्रत्यपेक्ष्य न करोति पापं कर्म, किं तत्र-पापकर्माऽकरणे मुनिः - मुनित्वं कारणं स्यात् ? अर्थान्न स्यादिति ।।११६।।
कवं तर्हि नैश्चयिको मुनिभाव इत्यत आह -
समयं तत्थुवेहाए अप्पाणं विप्पसायए-अणन्नपरमं नाणी, नो पमाए कयाइ वि । आयगुत्ते सया वीरे, जायामायाइ जावए ॥१॥ विरागं रूवेहिं गच्छिज्जा महया खुहुएहि य, आगई गई परिण्णाय दोहिवि अंतेहिं अदिस्समाणेहिं से न छिज्जइ, न भिजइ, न डज्झइ, न हमइ कंचणं सव्वलोए ॥११७॥
__ समतां समयं वा - आगमं वा तत्र-पापकर्माऽकरणे उत्प्रेक्ष्य - पर्यालोच्य आत्मानं विप्रसादयेत् । अनन्यपरमं- सर्वप्रधानात् संयमं ज्ञानी न प्रमादयेत् कदाचित् । आत्मगुप्तः सदा वीरः यात्रामात्रया - संयमयात्रायां या आहारमात्रा तया यापयेद् 'अचाहारो न सहे' इत्यादि वचनात् ।
सैवाऽऽत्मगुप्तता कथं स्यादिति चेदाह -
विरागं रूपेषु गच्छेत् महता - दिव्यभावेन व्यवस्थितेषु क्षुल्लकेषु वा - मनुष्यरूपेषु वा, यदि वा दिव्यादि प्रत्येकं महत् क्षुल्लकं च रूपं तत्र विरागं गच्छेदिति । नागार्जुनीयास्तु पठन्ति 'विसयंमि पंचगंमीवि, दुविहंमि तियं तियं । भावओ सुठु जाणित्ता, से न लिप्पइ दोसुवि' विषये पञ्चकेऽपि इष्टानिष्टतया द्विविधे, हीनमध्यमोत्कृष्टभेदात् त्रिकं त्रिकं । भावतः सुष्टु ज्ञात्वा स मुनिः न लिप्यते द्वाभ्यां रागद्वेषाभ्यां तदकरणात् । स्यादेतत् -
किमालम्ब्यैतत्कर्तव्यमित्याह - आगतिं गतिं च परिज्ञाय द्वाभ्यां रागद्वेषाभ्याम् अन्ताभ्याम् अन्तहेतुत्वात् अदृश्यमानाभ्यां अनपदिश्यमानाभ्यां वा सिद्ध्यति एव, तथा च स न छिद्यते, न भिद्यते, न दयते, न हन्यते केनचित् सर्वलोक इति ॥११७॥
___ अपरे साम्प्रतक्षिणः कुतो क्यमागताः क्व यास्यामः ? किं वा तत्र नः सम्पत्स्यते ? नैवं भावयन्त्यतः संसार-भ्रमणपात्रतामनुभवन्तीति दर्शयितुमाह - . अवरेण पुचि न सरंति एगे, किमस्स तीयं किं वाऽऽगमिस्सं । भासंति एगे इह माणवाओ, जमस्स तीयं तमागमिस्सं ॥१॥
-
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका) *
४५ .

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126