Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 52
________________ तम्हातिविज्जो परमंति णच्चा, आयंकदंसी न करेइ पावं ॥ अग्गं च मूलं च विगिंच धीरे, पलिच्छिंदिया णं निक्कमदंसी ॥४॥ वा संयमं परममिति ज्ञात्वा, 1 तस्माद् अतिविद्यो मोक्षं तत्कारणं आतङ्कदर्शी न करोति पापम् मोहनीयव्यतिरिक्तं मिथ्यात्वव्यतिरिक्तं वा कर्म मूलं च मोहनीयं मिथ्यात्वं वा कर्म त्यज धीरः । क्रिञ्च रागादीनि कर्माणि वा तपः संयमाभ्यां परिच्छिद्य निष्कर्मदर्शी भवति । अग्र-भवोपग्राहिकर्मचतुष्टयम् घातिचतुष्टयं यश निष्कर्म्मदर्शी भवति सोऽपरं किमाप्नुयादित्याह - एस मरणा पमुच्चइ, से हु दिट्ठभए मुणी, लोगंसि परमदंसी विवित्तजीवी उवसंते समिए सहिए सया जए कालकंखी परिव्वए, बहुं च खलु पावं कम्मं पगडं ॥ ११२ ॥ - एष मरणात् प्रमुच्यते । स दृष्टभय एव मुनिः लोके परमदर्शी- परमःमोक्षस्तत्कारणं वा संयमस्तद्दर्शी, विविक्तजीवी, उपशान्तः, समितो, ज्ञानादिभिः सहितः, सदा यतः कालाकाङ्क्षी परिव्रजेत् यतो बहु च खलु पापं कर्म प्रकृतं बद्धं प्रकटं वा तत्कार्यप्रदर्शनादिति ॥। ११२ ।। यदि नामैवं ततस्तदपनयनार्थं किं कर्तव्यमित्याह - सच्चमि धिदं कुव्वहा, एत्थोवरए मेहावी सव्वं पावं कम्मं जोसइ ॥ ११२ ॥ सत्ये - सद्भ्यो हिते संयमे धृतिं कुरुध्वम्, अत्रोपरतो मेधावी सर्वं पापं कर्म झोषयति-क्षपयतीति ॥११३॥ उक्तोऽप्रमादः, तत्प्रत्यनीकस्तु प्रमादः तेन किंगुणो भवतीत्याह अणेगचित्ते खलु अयं पुरिसे, से केयणं अरिहए पूरिण्णए, से अण्णवहाए अणपरियावा अण्णपरिग्गहाए, जणवयवहाए जणवयपरियावाए जणवयपरिग्गहाए ॥११४॥ अनेकचित्तः- कृषिवाणिज्यादिगतचित्त एवाऽयं पुरुषः । स केतनंलोभेच्छारूपां चालनीं समुद्रं वा पूरयितुम् अर्हति । एवंभूतः सः अन्यवधाय अन्यपरितापाय अन्यपरिग्रहाय जनपदवधाय जनपदपरितापाय जनपदपरिवादाय वा जनपदपरिग्रहाय प्रभवति ।। ११४।। अनन्तरोक्ताः प्रमादिनस्तथाभूता एवासते उतान्यथा ? अन्यथाऽपीति दर्शयति - श्री आचाराङ्गसूत्रम् (अक्षरगमनिका ) * ४३

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126