Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
.
.
छणं' पाठान्तरमाश्रित्य कर्मोपादाय . तत्क्षणमेव तदुपादानहेतोनिवृत्तिं विदध्यादित्यर्थः । प्रत्युपेक्ष्य सर्वं - कर्म मोक्षं च समादाय-ज्ञात्वा द्वाभ्याम् अन्ताभ्यां- रागद्वेषाभ्यां सह अदृश्यमानः अनपदिश्यमानो वा तत्- कर्म तदुपादानं वा परिज्ञाय परिहरेत् मेधावी । विदित्वा रागादिमोहितं लोकं विषयकषायलोकं वा . वान्त्वा विषयपिपासाख्यां धनाद्याग्रहग्रहरूपां वा लोकसंज्ञां स मेधावी पराक्रमेतेति ब्रवीमि ||१११।।
॥ अध्ययन-३ : उद्देशकः-२ ॥ अथ लोकसंज्ञाप्रधानस्य भावसुप्तस्याऽसातलक्षणं फलमुच्यते
जाइं च बुषिंढ च इहऽज्ज ! पासे, भूएहिं जाणे पडिलेह सायं ॥ तम्हाऽतिविज्जे परमंति णचा, संमत्तदंसी न करेइ पावं ॥१॥
जाति- प्रसूतिं च बालकुमारयौवनवृद्धावस्थापर्यन्तां च वृद्धिं तत्फलं च दुःखम् इह अद्य आर्य ! वा पश्य दृष्टवा अवबुध्यस्व । किञ्च भूतैः - चतुर्दशभूतग्रामैः सममात्मनः सातं प्रत्युपेक्ष्य जानीहि, यथा त्वं सुख-प्रियस्तथाऽन्येऽपि । तस्मात् अतिविद्यः परमं- मोक्षं ज्ञानादिकं वा तन्मार्गमिति ज्ञात्वा सम्यक्त्वदर्शी समत्वदर्शी वा न करोति पापमिति ।
पापस्य च मूलं स्नेहपाशास्तदपनोदार्थमाह -
उम्मुंच पास इह मच्चिएहिं, आरंभजीवी उभयाणुपस्सी ॥ कामेसु गिद्धा निचयं करंति, संसिच्चमाणा पुरिति गम्भं ॥२॥
उन्मुञ्च पाशं इह मत्र्यैः सार्धं, स हि मर्त्य आरम्भजीवी उभयानुदर्शी शारीरमानसैहिकामुष्मिकदुःखानुदर्शी । किञ्च- कामेषु गृद्धाः कर्मनिचयं कुर्वन्ति, संसिच्यमानाः कर्मणा पुनर्यान्ति गर्भमिति ॥२॥
तदेवमनिभृतात्मा किंभूतो भवतीत्याह -
अवि से हासमासज, हंता नंदीति मन्नइ ॥ अलं बालस्स संगेण, वेरं वड्ढेइ अप्पणो ॥३॥
स हासमासाद्य हत्वाऽपि प्राणिनो नन्दिरिति मन्यते । अलं वालस्य सङ्गेन, यो वैरं वर्द्धयति आत्मनः ॥३॥
यतश्चैवमतः किमित्याह -
४२
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126