Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 46
________________ जम्हा अविमणे वीरे, तम्हा वीरे न रज्जइ ॥१॥ ॥९९॥ यो ममायितं मम माता, मम पिता, मम धनमिति ममायितं तत्र मतिः ममायितपतिस्तां जहाति त्यजति स ममायितं - परिग्रहं त्यजति । अत एव स खलु दृष्ट-पथः- दृष्टमोक्षमार्गे मुनिर्यस्य नास्ति ममायतं परिग्रहः । ‘दिट्ठभए' इति पाठान्तरमाश्रित्य दृष्टभयः परिग्रहत्यागात् ज्ञातभयत्वमिति । किंच तं परिग्रहं परिज्ञाय मेधावी विदित्वा लोकं-परिग्रहाग्रहयोगविपाकिनं वान्त्वा च लोकसंज्ञां दशप्रकारां स मतिमान् संयमानुष्ठाने पराक्रमेति ब्रवीमि । नारतिं संयमे सहते वीरः । वीरो न सहते असंयमे विषयेषु परिग्रहे वा रतिम् । यस्मात् अविमनस्को वीरः, तस्मात् वीरो न रज्यते शब्दादिविषयग्राम इति ||१|| |९९॥ यत एवं ततः किमित्याह - सद्दे फासे अहियासमाणे, निव्विंद नंदि इह जीवियस्स । मुणी मोणं समायाय, धुणे कम्मसरीरगं ॥ २॥ पंतं लुहं सेवंति, वीरा संमत्तदंसिणो । एस ओहंतरे मुणी, तिने मुत्ते विरए वियाहिए ॥ ३ ॥ त्ति बेमि ॥ १०० ॥ - शब्दान् स्पर्शान् आद्यन्तग्रहणाद्रूपादीनपि अध्यासमानः सम्यक् सहमानः निर्विन्दस्व- जुगुप्सस्व नन्दिम् ऐश्वर्यविभवात्मिकां मनसस्तुष्टिं इहमनुष्यलोके जीवितस्य असंयमजीवितस्य । मुनिः मौनं मुनिभावं संयमं समादाय धुनिहि- पृथक्कुरु कर्मशरीरकं- औदारिकशरीरं वा तदुपरि ममत्वाऽविधानेन । आदाय संयमं प्रान्तं रूक्षं सेवन्ते वीराः सम्यक्त्वदर्शिनः समत्वदर्शिनो वा । अनेकादेशे चैकादेश इति कृत्वा एष. प्रान्तरूक्षसेवी भवौघं तरतीति ओघन्तरो मुनिः, अथवा क्रियमाणं कृतमितिकृत्वा तीर्णो मुक्तो विरतो विख्यात इति ब्रवीमि ||१००|| यश्च मुक्तत्वविरतत्वाभ्यां न विख्यातः स किंभूतो भवतीत्याह - - - दुव्वसुमुणी अणाणाए, तुच्छए गिलाइ वत्तए, एस वीरे पसंसिए, अच्छे लोयसंजोगं, एस नाए पवुच्चइ ॥ १०१ ॥ - दुर्वसुः मुक्तिगमनाऽयोग्यो मुनिर्भवति अनाज्ञया । अत एव तुच्छको ज्ञानादिरहितत्वात् शुद्धमार्गप्ररूपणावसरे ग्लायति वक्तुम् । एष तु सुवसुः मुक्तिगमनयोग्यो मुनिर्ज्ञानादिसमन्वितो वीरः प्रशंसितः । किञ्च एषः श्री आचाराङ्गसूत्रम् (अक्षरगमनिका ) * ३७

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126