Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
स मतिमान् देहस्वरूपं कामस्वरूपं च परिज्ञाय मा च लालां निर्गतामपि बालः पुनरश्नाति एवं त्वं त्यक्तान् भोगान् मा प्रत्यशान, प्रत्याशी-प्रत्यशनशीलः सन् मा तेषु-ज्ञानादिषु तिरश्चिनं-प्रतिकूलम् आत्मानमापादयेः, यतः कासंकासः - इदमहमकार्षम् इदं करिष्ये इत्येवं किंकर्तव्यतामूढः प्राकृतशैल्या कासंकासः दधिघटिकाद्रमकवत् अथवा कस्यते-हिंस्यतेऽस्मिन्निति कासः-संसारस्तदभिमुखं कषति यातीति कासंकषः । खलु अयं पुरुषो बहुमायी कृतेन मूढः मम्मणवणिक्वत् पुनस्तत् परवञ्चनबुद्ध्या लोभाद्यनुष्ठानं करोति, अथवा लोभं करोति तथा वैरं वर्धते आत्मनः । यदिदं प्राणघातादिनाऽऽत्मनो वैरं वर्धते तद् अस्य-विशरारोः शरीरस्यैव परिबृंहणार्थ- पुष्ट्यर्थं जीवः प्राणिघातादिकाः क्रियाः करोतीति, यदिवा यदिदं उपदेशप्रायं पौनःपुन्येन मया परिकथ्यते तदस्य-संयमस्यैव परिबंहणार्थ-स्फात्यर्थमिति । किञ्च-स कासंकासः अमरायते-अजरामरदत् क्रियासु प्रवर्तते यतो महाश्रद्धी भोगेषु तदपायेषु वा महतीश्रद्धावान् । अत एव आर्तः । आर्तमेतं तु प्रेक्ष्य कामार्थयोर्मनो न विधेयमिति । पुनः अमरायमाणो भोगश्रद्धावान् कामस्वरुपं तद्विपाकं वाऽपरिज्ञाय क्रन्दत इति ।।९५।।
तदेवम् अनेकधा कामविपाकमुपदर्य उपसंहरति -
से तं जाणह जमहं बेमि, तेइच्छं पंडिए पवयणमाणे से हंता छित्ता भित्ता लुंपइत्ता विलुपइत्ता उद्दवइत्ता, अकडं करिस्सामित्ति मन्नमाणे, जस्सवि य णं करेइ, अलं बालस्स संगेणं, जे वा से कारइ बाले, न एवं अणगारस्स जायइ त्ति बेमि ॥१६॥
___ तत्-तस्मात् तम्-उपदेशं कामपरित्यागविषयं जानीत यमहं ब्रवीमिचिकित्सां - कामचिकित्सां व्याधिचिकित्सां वा पण्डितः - पण्डिताभिमानी प्रवदन् स हन्ता-जीवोपमर्दकः छेत्ता भेत्ता लुम्पयिता विलुम्पयिता अपद्रावयिता अकृतं-यदपरेण न कृतं कामचिकित्सनं व्याधिचिकित्सनं वा तदहं करिष्यामीति मन्यमानः, यस्यापि चाऽन्यस्य करोति, अलं-पर्याप्तं तस्य बालस्य सङ्गेन, यो वैतत् कारयति बालस्तस्यापि सङ्गेनाऽलम्, न एवं कामचिकित्सोपदेशदानं करणं वा अनगारस्य जायते- कल्पते इति ब्रवीमि ।।९६।।
॥ अध्ययनं-२ उद्देशकः-६ ॥ नैवमनगारस्य जायते - कल्पत इत्युक्तम् एतदेव प्रतिपिपादयिषुराह -
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका) *
३५

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126