Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 42
________________ अदृश्यमान आकिञ्चन्यात् यदिवा अदिश्यमानः क्रीतकृताऽपरिभोगात् क्रयविक्रययोः स न क्रीणीयात् न क्रापयेत् क्रीणन्तं न समनुजानीयात् स भिक्षुः कालज्ञो बलज्ञः छान्दसत्वाद्दीर्घत्वं मात्राज्ञः खेदज्ञः क्षेत्रज्ञो वा क्षणज्ञो विनयज्ञः स्वसमयपरसमयज्ञो भावज्ञः परिग्रहम् अममायमानःमनसाऽप्यनाददानः कालानुष्ठायी अप्रतिज्ञः . कषायप्रधानप्रतिज्ञारहितः अनिदानो वेति ॥८९।। अनेषणीयग्रहणभोगोपभोगप्रतिज्ञा च रागद्वेषाभ्यां भवत्यतस्तां छित्त्वा परिव्रजतीत्याह - दुहओ छेत्ता नियाइ, वत्थं, पडिग्गहं, कंबलं, पायपुंछणं, उग्गहणं च कडासणं एएसु चेव जाणिज्जा ॥१०॥ द्विधा रागेण द्वेषेण वा या प्रतिज्ञा तां छित्त्वा नियाति-नियतं याति, वस्त्रं पतद्ग्रहं कम्बलं पादपुञ्छनं, अवग्रहः-वसतिश्च कटाऽऽसनम् एतेषु - स्वारम्भप्रवृत्तेषु गृहस्थेषु चैव जानीयात्-निर्दोषचर्यया परिव्रजेदिति भावः ।।९०॥ ___ एतेषु च स्वारम्भप्रकृतेषु गृहस्थेषु परिव्रजन यावल्लाभं गृहणीयादुत कश्चिनियमोऽप्यस्ति ? अस्तीत्याह लद्धे आहारे अणगारो मायं जाणिज्जा, से जहेयं भगवया पवेइयं, लाभुत्ति । न मजिजा, अलाभुत्ति न सोइज्जा, बहुपि लद्धं न निहे, परिग्गहाओ अप्पाणं अवसकिज्जा ॥९१॥ ___लब्धे आहारे मात्रां- परिमाणं जानीयात् यथैतत्-परिमाणं भगवता प्रवेदितं, किञ्च- लाभ इति न माद्येत्, अलाभ इति न शोचेत्, बह्वपि लब्ध्वा न निदध्यात् - आहारसन्निधिं न कुर्यात् अपरमपि वस्त्रपात्रादिकं संयमोपकरणातिरिक्तं न बिभृयादित्याह-परिग्रहात् आत्मानम् अवष्वष्केद्अपसर्पयेदिति ॥९१॥ आह च - अन्नहा णं पासए परिहरिज्जा, एस मग्गे आयरिएहिं पवेइए, जहित्थ कुसले नोवलिंपिज्जासि त्ति बेमि ॥१२॥ अन्यथा - आचार्यसत्कमिदमुपकरणं न ममेत्यनेन प्रकारेण पश्यकः सन् परिग्रहं परिहरेत् - त्यजेत् । धर्मोपकरणं न परिग्रहायेति एष मार्ग आर्यैः प्रवेदित इति तथा विधेयं यथाऽत्र कुशल ! नोपलिम्पयेरिति ब्रवीमि ।।९२।। श्री आचाराङ्गसूत्रम् (अक्षरगमनिका) * ३३

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126