Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
से तं संबुज्झमाणे आयाणीयं समुट्ठाय तम्हा पावकम्मं नेव कुजा, न कारवेजा ॥९७॥
सः - अनगारः तत्-प्राण्युपघातकारि चिकित्सोपदेशदानमनुष्ठानं वा एतद्वा - ज्ञानाद्यपवर्गककारणं संबुध्यमानः आदानीयं - ज्ञानादित्रयं समुत्थाय - आदाय किं कुर्यादित्याह- यस्मात् संयमः सर्वसावधनिवृत्तिरूपः तस्मात् पापकर्म-प्राणातिपाताद्यष्टादशप्रकारं नैव . कुर्यात् एवकाराच्च न समनुजानीयात् न कारयेदिति ॥९७||
स्यादेतत्-किमेकं प्राणातिपातादिकं पापं कुर्वतोऽपरमपि ढौकते आहोस्विनेत्याह -
सिया तत्थ एगयरं विप्परामुसइ छसु अन्नयरंमि, कप्पइ सुहट्ठी लालप्पमाणे, सएण दुक्खेण मुढे विप्परियासमुवेइ, सएण विप्पमाएण पुढो वयं पकुब्बइ, जंसिमे पाणा पवहिया, पडिलेहाए नो निकरणयाए, एस परिन्ना पवुच्चइ, कम्मोवसंती ॥९८॥
स्यात्तत्र-पापारम्भे एकतरं - पृथिवीकायादिसमारम्भं प्राणातिपाताद्याश्रवं वा विपरामृशति-समारभते स षट्स्वन्यतरस्मिन् कल्पते- योग्यो भवति, सर्वस्मिन्नेव प्रवर्तते इति भावः अकार्य प्रवृत्तत्वात्, यदिवाऽसौ अष्टप्रकारं कर्मादाय षट्सु पृथिव्यादिषु अन्यतरस्मिन् कल्पते- प्रभवते सर्वस्मिन् पृथिव्यादौ पौनःपुन्येनोत्पद्यते यतः स सुखार्थी वाचा लालप्यमानः, कायेन कृष्यादिक्रियाः कुर्वन्, मनसा च तत् तच्चिन्तयन् स्वकीयेन दुःखेन मूढो विपर्यासमुपैति । स्वकीयेन च प्रमादेन पृथग् व्रतं - विभिन्नं व्रतं प्रकरोति, यदि वा पृथुवयं- पृथु-विस्तीर्णं वयन्ति-पर्यटन्ति प्राणिनो यस्मिन् स वयः - संसारस्तं करोति, यद्वा वयः - एकेन्द्रियाद्यवस्थाविशेषस्तं करोति, यस्मिन् चतुर्गतिकसंसारे एकेन्द्रियाद्यवस्थाविशेषे वा इमे प्राणाः - अभेदोपचारात् प्राणिनः प्रव्यथिताः, तत्-प्रव्यथनं प्रत्युपेक्ष्य नो निकरणाय . शारीरमानसदुःखोत्पादनाय आरम्भं कुर्यात् । एषा- सावधनिवृत्तिः परिज्ञा प्रोच्यते । एवं प्राणिनिकारपरिहारे कर्मोपशान्तिः- कर्मक्षयो भवतीती ।।९८॥ ___ अस्य च कर्मक्षयविघ्नस्य प्राणिदुःखोत्पादनस्य मूलं ममता परिग्रहो मूति यावत्
तत्त्यागायाह -
जे ममाइयमई जहाइ स चयइ ममाइयं, से हु दिट्ठपहे मुणी जस्स नत्थि ममाइयं, तं परिन्नाय मेहावी विइत्ता लोगं वंता लोगसन्नं से मइमं परिक्कमिजासि त्ति बेमि ॥ नारइं सहइ वीरे वीरे न सहइ रतिं ॥
३६
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126