Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
एत्थ सत्थं समारंभमाणस्स इच्चेते आरंभा अपरिणाया भवंति, एत्थ सत्थं असमारंभमाणस्स इच्छेते आरंभा परिणाया भवंति, तं परिणाय मेहावी व सयं अगणिसत्थं समारंभेज्जा, नेवऽण्णेहिं अगणिसत्थं समारंभावेजा, अगणिसत्थं समारंभमाणे अण्णे न समणुजाणेजा, जस्सेते अगणिकम्मसमारंभा परिण्णाया भवंति, से हु मुणी परिण्णायकम्मे त्ति बेमि ॥३९॥ ___ अत्र शस्त्रं समारभमाणस्य इत्येते आरम्भा अपरिज्ञाता भवन्ति, अत्र शस्त्रं असमारभमाणस्य इत्येते आरम्भाः परिज्ञाता भवन्ति, तत् परिज्ञाय मेधावी नैव स्वयम् अग्निशस्त्रं समारभेत, नैव अन्यैः अग्निशस्त्रं समारम्भयेत, अग्निशस्त्रं समारभमाणान् अन्यान् न समनुजानीयात्, यस्यैते अग्निकर्मसमारभ्भाः परिज्ञाता भवन्ति स खलु मुनिः परिज्ञातकर्मेति ब्रवीमि ।।३९।।
॥ अध्ययनं-१ उद्देशकः ५ ॥ इहानन्तरोद्देशके तेजःकायः प्रतिपादितः, तदनन्तरं वायुकायस्याऽवसरः । स च न चक्षुःप्रत्यक्ष इति दुःश्रद्धानः । मा च शैक्षस्तमश्रद्दधानो विप्रतिपद्यतेति तेन क्रममुल्लङ्घय समस्तलोकप्रत्यक्षो वनस्पतिकायः प्रतिपाद्यते
तं णो करिस्सामि समुट्ठाए, मत्ता मइमं अभयं विदित्ता, तं जे णो करए एसोवरए, एत्थोवरए, एस अणगारेत्ति पवुच्चइ ॥४०॥
यं पूर्वमकार्षं प्रमादेन तं - वनस्पतिकायसमारम्भं नो करिष्यामि समुत्थाय - आदाय प्रव्रज्याम् । एवमात्मनि मत्वा - निश्चित्य हे मतिमन् ! अभयम् - संयमं च विदित्वा तं - वनस्पत्यारम्भं यो न कुर्यात् एष उपरतः - निवृत्तः । अत्र मौनीन्द्रप्रवचने य उपरत एषः अनगार इति प्रोच्यते ॥४०॥
शब्दादिविषयाः प्रायो वनस्पतिसमारम्भाद् निष्पद्यन्ते तेषु च वर्तमाना नरकादिचतुर्विधगत्यन्तःपातिनो बोद्धव्याः तदन्तःपातिन एव च शब्दादिविषयाभिष्वङ्गिनो भवन्तीति दर्शयत्राह
जे गुणे से आवट्टे जे आवट्टे से गुणे ॥४१॥
यः शब्दादिगुणेषु रज्यते द्वेष्टि च स संसाराऽऽवर्ते परिभ्रमति । य आवर्ते परिभ्रमति स शब्दादिगुणेषु वर्तत इति ॥४१।।
एते शब्दादिगुणाः कुत्र ? भण्यते उड्ढे अहं तिरियं पाइणं पासमाणे स्वाइं पासति, सुणमाणे सद्दाई
-
श्री आचारागसूत्रम् (अक्षरगमनिका) *
१३

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126