Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
प्रकुर्वाणस्तेन-कर्मविपाकापादितेन दुःखेन सम्मूढो विपर्यासमुपैति, मुनिना तीर्थकृता खलु एतत् प्रवेदितं, अनोघन्तरा एते - कुतीर्थकाः पार्श्वस्थादयो वा, न च ओघं - संसारम् अष्टप्रकारं कर्म वा तरितुं समर्थाः, अतीरंगमा एते न च तीरं मोहनीयक्षयं घातिचतुष्टयापगमं वा गन्तुं समर्थाः, अपारंगमा एते न च पारं - मोहनीयातिरिक्तशेषघातिक्षयं भवोपग्राह्यभावं वा गन्तुं समर्थाः, आदानीयं च श्रुतं भोगाङ्गकर्म वाऽऽदाय तस्मिन् श्रुतोक् संयमस्थाने न तिष्ठति, वितथमुपदेशं प्राप्यऽखेदज्ञः खेदज्ञो वा तस्मिन् साम्प्रतेक्ष्युपदिष्टेऽसंयमस्थाने तिष्ठति । अथवा वितथम् आदानीयंभोगाङ्गव्यतिरिक्तं संयमस्थानं प्राप्य / खेदज्ञः तस्मिन् सर्वज्ञाज्ञारूपे स्थाने तिष्ठतीति ॥८१॥
-
-
अयं चोपदेशोऽनवगततत्वस्य विनेयस्य यथोपदेशं प्रवर्तमानस्य दीयते, यस्त्ववगतहेयोपादेयविशेषः स यथावसरं यथाविधेयं स्वत एव विधत्ते इत्याह च
उद्देसो पासगस्स नत्थि, बाले पुण निहे कामसमणुन्ने असमियदुक्खे दुक्खी दुक्खाणमेव आवट्टं अणुपरियदृइ त्ति बेमि ॥ ८२ ॥
-
नास्ति, बालः पुनः निहः
उपदेश उद्देशो वा नारकादिव्यपदेशो वा पश्यकस्य सर्वज्ञस्य तदुपदेशवर्तिनो वा परीषहोपसर्गैर्निहन्यत इति यदि वा स्निहः-स्नेहवान् रागीति यावत् कामसमनोज्ञः कामाः सम्यग् मनोज्ञा यस्य स यद्वा कामैः सह मनोज्ञः यदिवा कामान् सम्यगनु-पश्चात् स्नेहानुबन्धाज्जानाति सेवत इति कामसमनुज्ञः, एवभूतश्च किंभूतो भविष्यतीत्याह अशमितदुःखो दुःखी दुःखानामेव आवर्तम् अनुपरिवर्तते ।। इति ब्रवीमि ॥ ८२ ॥
॥ अध्ययनं - २ उद्देशकः -४ ॥
दुःखी दुक्खाणमेव आवट्टे अणुपरियटइ इति अनन्तरोक्तं तानि चामूनि दुःखानि 'तओ से' इत्यादिनोच्यन्ते
तओ से एगया रोगसमुप्पाया समुप्पज्जंति, जेहिं वा सद्धिं संवसइ ते व णं एगया नियया पुव्विं परिवयंति, सो वा ते नियगे पच्छा परिवइज्जा, नालं ते तव ताणाए वा, सरणाए वा, तुमंपि तेसिं नालं ताणाए वा, सरणाए वा, जाणित्तु दुक्खं पत्ते सायं, भोगा मे व अणुसोयन्ति इहमेगेसिं माणवाणं ॥ ८३ ॥
ततस्तस्य एकदा रोगसमुत्पादाः समुत्पद्यन्ते, यैर्वा सार्द्धं संवसति ते
श्री आचाराङ्गसूत्रम् (अक्षरगमनिका) * २९

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126