Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh
View full book text
________________
अनभिक्रान्तं च खलु वयः सम्प्रेक्ष्य “आयळं संमं -समणुवासेज्जासि" इत्युत्तरेण सूत्रेण सम्वन्धः, आत्महितं कुर्यादित्यर्थः ॥७०॥
किमनतिक्रान्तवयसैवात्महितमनुष्ठेयमुतान्येनापीति ? परेणापि लब्धावसरेणात्महित-. मनुष्ठेयमित्येतद्दर्शयति -
खणं जाणाहि पंडिए ॥७१॥
क्षणं - चारित्रावसरं जानीहि पण्डित ! ज्ञात्वा चाऽऽत्महितं कुर्यादित्युत्तरेण सूत्रेण सम्बन्धः ॥७१॥
किञ्च
जाव सोयपरिण्णाणा अपरिहीणा, नेत्तपरिण्णाणा अपरिहीणा, घाणपरिणाणा अपरिहीणा, जीहपरिण्णाणा अपरिहीणा, फरिसपरिण्णाणा अपरिहीणा इचेएहिं विरूवरूवेहिं पण्णाणेहिं अपरिहीणेहिं, आयटं संमं समणुवासिज्जासि त्ति बेमि ॥७२॥
___ यावत् श्रोत्रपरिज्ञानानि अपरिहीनानि, नेत्रपरिज्ञानानि अपरिहीनानि, घ्राणपरिज्ञानानि अपरिहीनानि, जिह्वापरिज्ञानानि अपरिहीनानि, स्पर्शपरिज्ञानानि अपरिहीनानि, इत्येतैः विरूपरूपैः प्रज्ञानैः अपरिहीनैः आत्मार्थं यदिवा आयतार्थं - अपर्यवसनाद् मोक्षार्थं यद्वा आयत्तार्थं - आयत्तत्वाद् मोक्षार्थं सम्यक् समनुवासयेत् - आत्मनि कुर्याः यदिवा रत्नत्रय्याऽऽत्मानं वासयेद् भावयेत् रञ्जयेदिति यावत् ॥७२।।
अध्ययनं २ : उद्देशकः २ ॥ . संयमे वर्तमानस्य कदाचिदरतिः स्यात् तद्व्युदासार्थमाह- . . अरइं आउट्टे से मेहावी खणंसि मुक्के ॥७३॥ ....... अरतिं आवर्तेत - अपवर्तेत स मेधावी एवं क्षणे क्षणेन वा मुक्तो .. भरतवदिति ॥७३॥ .. ... ये पुनरनुपदेशवर्तिनः कण्डरीकायास्ते चतुर्गतिकसंसारान्तवर्तिनो दुःखसागरमधिवसन्तीत्याह -
- अणाणाय पुट्ठावि एगे नियटृति, मंदा मोहेण पाउडा, अपरिग्गहा भविस्सामो समुट्ठाय लढे कामे अभिगाहइ, अणाणाए मुणिणो पडिलेहंति, इत्थ मोहे पुणो पुणो सन्ना नो हब्बोए नो पाराए ॥७॥
२४
* श्री आचाराङ्गसूत्रम् (अक्षरगमनिका)

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126