Book Title: Acharang Sutram Shrutskandh 01
Author(s): Kulchandrasuri
Publisher: Porwad Jain Aradhana Bhavan Sangh

View full book text
Previous | Next

Page 30
________________ ॥ २ : लोकविजय-अध्ययनं : उद्देशकः- १ ॥ अथ लोकविजयाख्यं द्वितीयमध्ययनम् इहानन्तराध्ययनप्रतिपादितषट्कायरक्षापरिणामवतः सर्वोपाधिशुद्धस्याऽऽरोपित- पञ्चमहाव्रतभारस्य साघोर्यथा रागादिकषायलोकस्य शब्दादिविषयलोकस्य वा विजयो भवति तथाऽनेनाऽध्ययनेन प्रतिपायत इत्यनेन संबन्धेनऽऽयातस्यास्याध्ययनस्यादिसूत्रम् जे गुणे से मुलट्ठाणे, जे मूलढाणे से गुणे । इति से गुणट्ठी महया परियावेणं पुणो पुणो वसे पमत्ते-माया मे, पिया मे, भाया मे भगिणी मे, भज्जा मे, पुत्ता मे, धूआ मे, ण्हुसा मे, सहिसयणसंगंथसंथुआ मे, विवित्तुक्गरणपरिवट्टणभोयणच्छायणं मे । इचत्थं गढिए लोए अहो य राओ य परितप्पमाणे कालाकालसमुट्ठाई संजोगट्ठी अट्ठालोभी आलुपे सहसाकारे विणिविट्ठचित्ते, एत्थ सत्थे पुणो पुणो, अप्पं च खलु आउयं इहमेगेसिं माणवाणं तं जहा ॥६३॥ ___ यः शब्दादिविषयगुणेषु वर्तते स संसारस्य मूलस्थाने - क्रोधादिकषायेषु वर्तते, यश्च मूलस्थाने वर्तते स गुणेषु वर्तते । इति स गुणार्थी महता परितापेन पुनः पुनर्वसेत् प्रमत्तः माता मे, पिता मे, भार्या मे, पुत्रा मे, दुहिता मे, स्नुषा मे, सखिस्वजनसंग्रन्थसंस्तुता मे, विविक्तं - प्रभुतं हस्त्यश्वाधुपकरणं परिवर्तनं - द्वित्रिगुणं भोजनाच्छादनं मे । इत्येवमर्थं गृद्धो लोको वसेत् प्रमत्तः । अहश्च रात्रिं च परितप्यमानो मम्मणवत् कालाऽकालसमुत्थायी, संयोगार्थी, अर्थाऽऽलोभी, आलुम्पः - गलकर्तनचौर्यादिकर्ता, सहसाकारो, विनिविष्टचित्तो, 'विणिविट्ठचिठे' पाठान्तरमाश्रित्य विनिविष्टचेष्टो वा अत्र - मातापित्रादौ शब्दादिविषय-संयोगे वा पृथ्व्यादिजीवानां यत् शस्त्रं तत्र पुनः पुनः प्रवर्तते । “एत्थ सत्ते पुणो पुणो' इति पाठान्तरमाश्रित्य अत्र मातापितृशब्दादि संयोगे सक्तः - गृद्धः सन् पौनःपुण्येन षड्जीवकायोपमर्दने प्रवर्तत इति । एतच्च युज्येत यद्यजरामरत्वं दीर्घायुष्कं वा स्यात्, तच्चोभयमपि नास्तीत्याह - अल्पं च खलु आयुष्यकमिहैकेषां मानवानां तद्यथा - ॥६३।। ये दीर्घाऽऽयुष्का भवन्ति तेऽपि जराभिभूता मृतकतुल्या भवन्ति, तद्यथा तं जहा - सोयपरिणाणेहिं परिहायमाणेहिं, चक्खुपरिणाणेहिं परिहायमाणेहिं, घाणपरिणाणेहिं परिहायमाणेहिं रसणापरिण्णाण्णेहिं श्री आचारागसूत्रम् (अक्षरगमनिका) * २१

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126