Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥९९२॥
तथा नमस्कारः सर्वार्थेष्वविघ्न हेतुर्मङ्गलमेवमयं मङ्गलागमथ, स च प्रयोजनम् ॥ अथ सामान्येनाईदादिनमस्कारस्वरूपाद्याह- 'सुत' इत्यादि ॥ तको - नमस्कारः श्रुतं, आगम इत्यर्थः, स च श्रुतोपयोगप्रयोजनः श्रुतोपयोगः फलमस्येति श्रुतोपयोगप्रयोजनः, तच्च श्रुतोपयोगफलमस्य नमस्कर्तुर्बहुत्रिकल्पं, किंविशिष्टमित्याह-आत्महित परिज्ञानं विषयपरिणामनिवृत्तिः भावसंवरः णवणवसंवेगात् श्रद्धा, आदिशब्दादचिन्त्यचरितानुष्ठानादि गृह्यते, एतत्प्रभावोऽयं पञ्चनमस्कारः । एवमुक्ते सत्याह- 'पूया' इत्यादि ॥ नहि जिनसिद्धौ नमःपूजाफलप्रदौ कोपरहितत्वेन प्रसादरहितत्वेन च, वैधर्म्येण नृपादयः । तथा- 'पूया' इत्यादि । विफला सिद्धादिपूजेति, न सिद्धाः पूजायां कृतायामपि फलं ददतीत्यर्थः, इयं प्रतिज्ञा, हेतूनाह - 'पूयाणुवगारओ' त्ति पूजयाऽनुपक्रियमाणत्वात्, तदपरिग्राहित्वादमूर्त्तत्वात् दूरत्वात् दूरदूरत्वादाकाशवत् । द्वारगाथे । अत्राचार्योऽनभ्युपगतोपालम्भतया प्रतिज्ञाया निर्विषयत्वं दर्शयन् सिद्धसाध्यतामाह- 'जिण' इत्यादि ॥ जिनसिद्धौ पूजायां नमस्कारकर्तुः फलं यच्छत इति केन चेदं प्रतिज्ञातं ?, आह- नमस्कार| फलमिहामुष्मिकमुक्तमुदाहरणप्रयोगात्, न तस्यान्यथासिद्धत्वात्, अन्यथासिद्धत्वं च - 'धम्मे' त्यादि पच्छद्धं कंठं । ततः किमित्यत आह- 'ते य' इत्यादि ॥ तौ च धर्माधर्मौ अनुग्राहकगतौ 'यतः' यस्माज्जीवगुणाः तस्यैव धर्मास्तेनान्यस्मै कस्मैचिदनुग्राह्याय न देयाः, न वा तेनानुग्राह्येण ततः समादेयाः, किं कारणमित्याह- 'कते' त्यादि भावितार्थम् । अपिच - 'ना' इत्यादि ॥ यतश्च'पूजाफलं ' नमस्कारफलमभिमतं ज्ञानानाबाधसुखं मोक्षः, ततः किमित्यत आह-तन देयं नमस्कारकर्त्रे ताभ्यां जिनसिद्धाभ्यां आत्मपर्यायत्वात् जीवादिभाववत्, आदिशब्दाच्चैतन्यभावः, अतो निर्विषयः प्राक्प्रतिषेध इति सिद्धसाधनात् । एवं तावद्धर्माधर्मौ न परप्रदेयाविदं तु परप्रदेयमित्याह - 'भत्ता' इत्यादि । इह भक्तं- शाल्योदनादि देयं भवेत् प्रकृतिसिद्धत्वात् उभयसङ्गतवस्तुवत्,
नमस्कारपूजाभ्यां
फलसिद्धिः
॥९१२ ॥
Loading... Page Navigation 1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496