Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha

View full book text
Previous | Next

Page 479
________________ विशेषाव | तस्सेत्या कोव्याचार्य ॥९७१॥ ॥९७१॥ षष्ठया, तथा त्रिकालविषयस्य वा योगस्य योऽतीतकालसम्बन्धी सावधयोगावयवस्तस्येत्येवमवयवलक्षणया वा, यत आह-समतीत सावधं योग सम्बन्धयति सूत्रकारः, न तु किमित्यत आह-न तु शेषं वर्तमानमेष्यं वा, तस्य संब्रियमाणत्वात् प्रत्याख्यायमानत्वाच्च, प्रतिक्रमणस्य च भूतविषयत्वाद् , वक्ष्यति चैतदनन्तरगाथया ॥ केषांचिन्मतमुपन्यस्य षयन्नाह-'अवी'त्यादि । केचन वस्त्वविवेकिनोऽनया षष्ठया विशिष्टमेव त्रैकालिकं सावधं योगं सम्बन्धयन्ति, तच न, 'प्रयोजनाभावात्' प्रयोजनपरित्यागात् तथा ग्रन्थगुरुत्वप्रसङ्गाच, तथा हि पुनरपि विविच्यास्यैव प्रतिक्रान्तव्यमिति ॥ इतश्च तन्नेत्याह-'पच्छित्तस्से' त्यादि । पच्छाणुपुवीए पुव्वद्धभावना, इह प्रायः प्रायोग्रहणं मिथ्यादुष्कृतादेस्तत्कालत्वात् प्रायश्चित्तस्य भूतविषयत्वात् प्रतिक्रमणस्य च प्रायश्चित्तमध्ये का. योत्सर्गनियुक्तौ पठितत्वात् न सामान्येन, प्रत्याख्येययोगसंबद्धयोः कालयोः प्रतिक्रमणाविषयत्वात् , इतश्चेत्याह-अतीतस्य पडिक्कमणोक्तेः कथं सामान्येनोच्यते-तस्य पडिकमामित्ति?,तथा पुनरुक्तत्वप्रसङ्गाच्च, तथाहि 'सव्वं पञ्चक्खामी' त्युक्ते 'तस्येति पुनरुक्तम् । 'तम्हा' इत्यादि ॥ तस्मात् तस्य प्रतिक्रमामीत्यस्य शब्दस्येहावश्यं कर्मणा भाव्यं, ततः प्रकृते किमत आह-तं च कम्म प्रतिक्रमण| शब्दस्य भूतात्सावद्ययोगान्नान्यदिति, तस्माद् भूतस्यैव प्रतिक्रमामि, नेतरयोः, अवयवलक्षणत्वात् षष्ठयाः । 'तिवी'त्यादि ॥ चोदको ब्रूते-यदि पुनरुक्तपरिजिहीर्षुभवान् ततस्तवापि तिविहेणंति ण जुत्तं, तिविहंतिविहेणं इत्यस्य द्वयस्योदेशोन कार्य इत्यर्थः, कुतः?, प्रतिपदविधिना समापितत्वात् , मणेणं वायाए कारणं न करेमि न कारवेमि करेन्तं अण्णं ण समणुजाणामीत्युक्तत्वादित्यर्थः, उच्यते'तिविहंतिविहेणं' त्युपन्यासं कृत्वाऽर्थविकल्पनया कारकविषयया उद्देशनिर्देशविषयया वा गुणभावना भवति-सामान्यविशेषविशिष्टार्थवासनाऽऽत्मनि भवति, अतः कः पौनरुक्त्यदोषः, अतः कारणादुद्देश्यपदयोरुपन्यासः 'अहं'इत्यादि॥ अथवैवमनयोरुपन्यासः,

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496