Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________
विशेषाव कोव्याचार्य
नयविचारः
वृत्ती
॥९७५॥
॥९७५॥
परित्यजामि, एतदुक्तं भवति-यथेह मांसविरतेः प्रत्याचक्षेऽहमित्यत्र शाब्देन न्यायेन तद्भक्षणे प्राप्तेऽप्यार्थेन न्यायेन तत्प्रतिपक्षोमांसभक्षणप्रतिपक्षः तस्य त्यागस्तद्भक्षणविरमणलक्षणो 'गम्यते' अवसीयते, तथा संव्यवहारदर्शनाद् , एवं सामायिकेऽपि सर्वसावद्ययोगविरतेः प्रत्याचक्षेऽहमिति शब्दप्रापितेऽपि सर्वसावद्यकरणविधौ अर्थात्सावद्ययोगाकरणं गम्यते । एतदेव भावयन्नाह-'सम्म'मित्यादि । स्फुटार्था । अथैतद्देशमेवान्यविषयमिति व्याचिख्यासुराह-'अहवा' इत्यादि । अथवा निंदामिच्चादिसुत्तमि संखेवओ. ऽभिहाणं निन्दनादिपदानां, किमित्यत आह-अतिक्रान्तसर्वसावद्ययोगप्रायश्चित्तसंग्रहार्थ, तच्च दशधा । ततश्च यथासंभवमाह-'निंदा' इत्यादि स्पष्टा ।। अथ समस्तं । सूत्रस्पर्शिका व्याख्या उपसंजिहीर्षयेदमाह
एवं सुत्ताणुगमो सुत्तनासो सुयत्थजुत्ती य । भणिया नयाणुजोगद्दारावसरोऽधुणा ते य ॥४३२७।। अत्थाणुगमंग चिय तेण जहासंभवं तहिं चेव | भणिया तहावि पत्थुयदारासुन्नत्थमुण्णेहं ॥४२२८॥ सामन्नमह विसेसो पच्चुप्पण्णं च भावमेत्तं च । पइसदं च जहत्थं च वयणमिह संगहाईणं ॥४३२९॥ एयाण समोयारो दब्वट्ठियपज्जवडियदुगंमि । सेसेसु य संभवओ ताणं च परोप्परं कज्जो ॥४३३०॥ दव्वढिअस्स दव्वं वत्थु पन्जवनयस्स पज्जाओ। अप्पियमयं विसेसो सामन्नमणप्पियनयस्स ॥४३३१॥ लोगव्यवहारपरो ववहारो भणइ कालओ भमरो। परमत्थपरो मण्णइ नेच्छइओ पंचवण्णोत्ति ।।४३३२।। अहवेगनयमयं चिय ववहारो जं न सव्वहा सव्वं । सब्वनयसमूहमयं विणिच्छओ जं जहाभूयं ॥४३३३॥ 'एव'मित्यादि ।। 'एवं' उक्तेन ग्रन्थेन सूत्रानुगमः सूत्रालापकन्यासः सूत्रस्पर्शनियुक्तिश्च, किमत आह-'भणिता' व्याख्याता,
Loading... Page Navigation 1 ... 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496