Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________
विशेषाव कोट्याचार्य
वृत्तौ
॥९७६॥
तद्वयाख्यानाच्च व्याख्यातमनुगमद्वारं । अधुना' साम्प्रतं 'णी प्रापणे नयन्ति-गमयन्ति अनन्तधर्मकलापालिङ्गितमूर्तेः पदार्था
नयविचारः त्मन एकमंशमिति नयाः, अनुयोजनमनुयोगो व्याख्यानं, नयानुयोगः, नयानुयोगश्चासौ द्वारं च, सामायिकार्थपुरप्रवेशहेतुत्वादिति नयानुयोगद्वारं तस्यावसरो-विभागः, प्रस्ताव इत्यर्थः॥ इह च नयाः-'अत्था' इत्यादि । अत्थाणुगमंगपिअ जेण तेण जहासंभवं तहिं चेव अणुगमे भणिता तथाऽपि प्रस्तुतद्वाराशून्यार्थमुन्नेष्ये नयान् ॥ इह संग्रहादीनां द्रव्यपर्यायास्तिकद्वये समवतारः कार्यः,
15॥९७६॥ तावन्तरेण तेपामभावात् "तित्थयरवयणसंगहविसेसपत्थारमूलवायरणी । दव्वढिओ य पज्जवणो य सेसा विय
प्पा सिं ॥१॥" तथा एतेषामेव शेषेषु चार्पितानर्पितादिषु वक्ष्यमाणेषु कार्यः-कर्त्तव्यः, एतेषां समवतार इति वक्तव्यं, तथा तेषामेव 5 परस्परसंभवतो यथासंभवं, तद्यथा ऋजुसूत्रः शब्दादिषु याति, तेऽपि तं बहु मन्यत इत्येवमादि । इह च-'दव्य'इत्यादि । द्रव्यार्थि-18
कस्य द्रव्यं वस्तु-द्रव्यमभिधेयं, द्रव्यार्थिकत्वात् , तथा पर्यायार्थिकस्य पर्यायो वस्तु, पर्यायार्थिकत्वात् । अथैते पडपि अर्पितानर्पितयोः समवतरन्ति, तन्मतं चेदं-अर्पितनयस्य-विवक्षितनयस्य मतं-अभिप्रायो विशेषो, न सामान्य इतरस्य न पर्यायः, अथवा षडपि व्यवहारनिश्चयौ, तन्मतमाह-'लोग' इत्यादि ॥ व्यवहारो भणति-भ्रमरः-शिलीमुखः कृष्णः कृष्णप्रघानत्वाद् अत्यासया:भिधानाच किंविशिष्टो यो व्यवहारः ? इत्याह-लोकव्यवहारपरो, लोकानुवृत्तिशील इत्यर्थः, णेच्छतिओ भण्णति पंचवण्णो, संनिहितापहवेऽतिप्रसङ्गात् , किंविशिष्टो यो निश्चयः १ इत्याह-परमार्थपरः, यथाऽवस्थितवस्तुवादीत्यर्थः । अथवा व्यवहारनिश्चय| योरन्यथा स्वरूपमाह-'अहवे' त्यादि । अथवा यावत्किश्चिदेकनयमतं स सर्वो व्यवहारः, असत्यत्वात् , विवक्षितैकहस्त्यवयवस्पर्शने | हस्तिव्यपदेशवत् , तथा चाह-यस्मात्कारणादसौ व्यवहारो न सर्वथा-सर्वात्मना सर्व वस्तु सर्वनयसमूहात्मकं प्रतिपद्यते विनिश्चय
CREGCARRACHAR
Loading... Page Navigation 1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496