Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________
तस्सेत्यादेरर्थः
विशेषाव कोव्याचार्य
वृत्तौ ॥९७२।।
ॐ
॥९७२॥
SEX.
तथाहि-यथासंख्यं मनसा न करोमि वाचा न कारयामि कायेन नानुजानानि मा एवं प्राप्स्यतीति, कथं च मा न प्राप्स्यतीत्यत आहन पत्तेयं ति न प्रत्येकं, मा भवदिति वर्त्तते, एतदुक्तं भवति-एकैको योगस्त्रिभिः करणेविवक्ष्यत इत्येतच्च मा न प्रापद्, अतो तिविहं तिविहेणंति नियामक उच्यते ॥ तथा चाह-'तो' इत्यादि ॥ ततस्त्रिविधं त्रिविधेन भणन्ति गणभृतः सूत्रं, प्रतिपदममापनहेतोः । अथवैकैकयोगे करणत्रयं चार्यत इत्येतदनुवर्तमानेन तिविधतिविहेणेति चानिच्छता किमत उच्यते-'ण करेमि'त्ति न करेमि न कारवेमि करेंतंपि अण्णं ण समणुजाणामि, एवमत्र प्रतिपदं योगविभागेन साध्य करणत्रयं, एतदुक्तं भवति-एवं वक्तव्यं मणेणं वायाए | कारणं न करेमि१ मणेणं वायाए कारणं न कारवेमि२, मणेणं वायाए काएणं नसमणुजाणामि३, तथा च सति ग्रन्थगौरवमपि स्यात् । 'अथवा' इत्यादि । अस्या भावार्थोऽक्षरैरुच्यते-न करेमि न कारवेमि अण्णं ण समणुजाणामि, अत्रापिशब्दतो यज्ज्ञेयं-यद् द्रष्टव्यमुक्तं प्राक् तद्विसेसयो समायोज्यं, कथं ?, अर्थविकल्पनया, त्रिकालविषयकरणकारणानुमतिसंभवासंभवमार्गणयेत्यर्थः, तथाहिअतीते कृतस्य कारितस्यानुमतस्य च सम्बन्धिनी अनुमतिरिदानी व्यवच्छिद्यते, न तु करणकारणे, तयोः कृतकारितत्वात् , इतरकालद्वये तु करणकारणानुमतयो न निवार्यन्तेऽविरुद्धत्वात् , 'तो'त्ति ततः कर्त्तव्यमुपन्यासपदद्वयमिति तत्करणे सति मुक्तावलीन्यायेन करणयोगपाठसंभवात्तदसद्भावे चोक्ते च त्रैकालिकविशेषस्य कर्त्तमशक्यत्वात् । 'भंते' इत्यादि । भंतेत्ति पुव्वभणिय, एवमुक्ते चोदक आह-अत एव किं पुनस्तस्य ग्रहणं ?, सर्वत्रानुवृत्तेस्तस्य, भणित च भवता-आदिप्रयुक्तः सर्वत्रानुगत इति, उच्यते-'अण्वि'त्यादि। तदनुवृत्त्यर्थमेव स्मारणं, तथाहि न न्यायः अणुयत्तणादेव, किं तु यत्तेणं. स चायं यत्नः ॥'अहवा' इत्यादि ॥ अथवा साधुर्भदन्त इति भणति, शेष स्पष्टम् । तथा-'जं चे त्यादि स्पष्टा । तथा-'सामा' इत्यादि । 'वा' अथवाऽयं भदंतसद्दो सामाइयकिरियापञ्चप्पण
-
Loading... Page Navigation 1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496