Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha

View full book text
Previous | Next

Page 465
________________ विशेषाव कोव्याचार्य सर्वादिपदव्याख्या ॥९५७॥ ॥९५७|| NAGAKARCHANA माह-यथा देशेऽपि पात्रीचतुर्भागे ओदनस्य तिष्ठति सति सर्व भक्तं भुक्तमिति आदिश्यते, तथा गतः सर्वो ग्रामः प्रधानस्य गतत्वादिति, उपचारसर्वमेतत् । अथ निरवशेषमाह-'दुवी'त्यादि । निरवशेषसर्व द्विविधं भवति-सर्वापरिशेषसर्व तद्देशापरिशेषसर्व चेति, | तत्र सर्वापरिशेषसर्वोदाहरणं यथा 'सर्वे' अशेषा देवाः खल्वनिमिषनयना इति । 'तद्दे' इत्यादि । देवदेशापरिशेषसर्व तु स्पष्टार्थम् ।। | सर्वधत्तासर्वमाह-'जीवा इत्यादि । इह सर्वजीवलोकवस्तु जीवाजीवमात्रं तद्धत्ते-धारयति येन कारणेन तेन कारणेन सा सर्वधत्तोच्यते विवक्षा, ननु दधातेर्हिरित्यादेशाद्धितमिति भवितव्यं, कथं धत्तमिति ?, उच्यते, प्राकृते देशीपदस्याविरुद्धत्वात् , अतः सैव सर्वधत्तोच्यते, जीवाजीवयोः परतोऽन्यस्याभावात् ॥ अथेदानीं द्रव्यसादीनां मिथो विशेषमाह-'अहे त्यादि । अथेत्यानन्तर्यार्थः, द्रव्यसर्व | भिन्नमितरेभ्य इति संटङ्कः, एकालिद्रव्याधारमितिकृत्वा, 'आदेश'त्ति आदेशसर्वमपीतरेभ्यो भिद्यते, कथमित्यत आह-एकप्रधानपुरुषाधारोपचारभेदेन तथाऽनेकभागाधारोपचारभेदेन च। तथा-'भिन्न मित्यादि । भिन्नमशेषसर्व सर्वधत्तातः, कस्मात्तदित्याहयस्मादिहैकदेवजातिविषयं तदिति, इतराऽपि सर्वेभ्यो भिन्ना जीवाजीवाधारत्वात् । दारं । भावसर्वमाह-कम्म' इत्यादि॥ सव्वोऽवि शुभाशुभो औदयिको कम्मोदयसभावो । 'कम्मे त्यादि स्पष्टम् ।। इह च- 'अहीं' त्यादि । दारं । षष्ठं सूत्रस्पर्शनमाह-'गरहितमित्यादि, गर्हितं वस्तु अवद्यमुक्तं भगवद्भिः , पापमित्यर्थः, सह तेनावद्येन वर्तत इति सावद्यः। 'अहं' इत्यादि ॥ अहवेह मोक्षाधिकारे वर्जनीयं वज्यं 'वृजी वर्जने पापमेव, 'सह'त्ति सह वर्जनीयेन वर्त्तत इति सवयः, इत्येवं स्थिते प्राकृतशैल्या सकारस्य दीर्घत्वादेशात्सह वज्र्येनेति सावयः, कोऽसौः ?-योगः इत्यभिप्रायः पुल्लिङ्गाभिधानात् । अथ योगव्याचिख्यासयाऽऽह-'योग'इत्यादि। 'युजिरुयोगे' 'युज समाधौ वा तस्य भावे कारके घञ्, योजनं योगः, आत्मकर्मसम्बन्ध इत्यर्थः, अथवाऽऽत्मक्रियासमाधानं आत्म MANASI

Loading...

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496