Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha
View full book text ________________
विशेषाव ० कोट्याचार्य वृत्तौ
॥९२४॥
द्रव्यकरणप्रस्तावे ऽन्योऽन्यसमाधानं - अन्योऽन्यावगाहः करणमभिप्रेतं न निवृत्तिः - नाभूतप्रादुर्भावः, करणशब्दस्यानेकार्थत्वादपि । एवं तावन्निरुपचरितं, अथोपचारतः परिहारमाह-'अहवे' त्यादि || अहवा नभाईणं सादीयं, उवयाराओ, किं तदित्याह - 'संजोगादिकरणं' ति सङ्घातकरणं, आदिशब्दो द्विप्रदेशादिसंयोगाख्यस्वभेदप्रख्यापकः, किमुपचारस्य निबन्धनमित्याह - 'परपच्चयाउ'ति तेषां | परः तदवगाही घटस्तद्विनाशप्रत्ययात् तेभ्यस्तदपगमेन, तत्सङ्घातना करणं सादीति भावार्थ:, अथवा नयान्तरमास्थाय निरुपचरितमेव परिहारमाह-पर्यायादेशतो वा धर्मादीनां संघातनाकरणं सादि, न च बह्नभ्युपगमविरोधं तस्य समापादयन्ति, वस्तुनोऽनन्तधर्मात्मकत्वाद्, धर्मे धर्मे च नयमतान्तराश्रयणात् । उक्तमरूप्यजीवानादिविश्रसाकरणं, अथ रूप्यजीवसादिविस्रसाकरणमाह-'चक्खु' | इत्यादि ॥ इह सादीयं रूविवीससाकरणमपि द्वेधा, तद्यथा चाक्षुषं चक्षुर्ग्राह्यं तथा अचाक्षुषं अतद्ग्राह्यं, उदाहरणं - अभ्रन्द्रधनुरादि चाक्षुषं, स्थूलबहलाकारपरिणामपरिणतत्वात्, अणुद्वयणुकादीनां त्वितरत् एवमेतद् बहुधा संघातभेदकृतत्वात् करणता चास्य कृतिः करणं, अन्यथा वा स्वधिया वक्तव्यं, 'वीससातो य'त्ति गतम् । 'होई'त्यादि । होइ पयोगो जीववावारो तेण जं विणिम्माणं तयं बहुधा पओगकरणं भण्णति, तच्च मूलभेदतो द्विविधं कथमित्याह -- सजीवमजीवं च, सजीवं देहादि अजीवं कुसुम्भरागादि प्रतिमादि वा करणम् । अथ सजीवप्रयोगकरणं भेदेनोच्यते- 'सजीव 'मित्यादि ॥ सजीवंति - सजीवप्रयोगकरणं | द्वेधा, कथमित्याह-मूलकरणं उत्तरकरणं च तत्र पञ्चानामौदारिकादीनां 'जमादीय'ति यदादौ संघातनाकरणं तन्मृलकरणमुच्यते, 'उत्तर'त्ति उत्तरसङ्घातकरणं त्वादित्रितयस्यैव औदारिकवैक्रियाहारकस्य, तस्यैवाङ्गोपाङ्गादि, नेतरयोः । तानि चामूनि, तत्र'मूल' इत्यादि । मूलकरण मष्टानां शिरःप्रभृतीनां निर्मापनं, शरीराणां च यथासंभवं योजना, तथाऽवशेषाणां - हस्तपादाङ्गुल्यादीनां
सूत्र स्पर्शिकादिकर
णविचारः
॥९२४॥
Loading... Page Navigation 1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496