SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृत्तौ ॥९२४॥ द्रव्यकरणप्रस्तावे ऽन्योऽन्यसमाधानं - अन्योऽन्यावगाहः करणमभिप्रेतं न निवृत्तिः - नाभूतप्रादुर्भावः, करणशब्दस्यानेकार्थत्वादपि । एवं तावन्निरुपचरितं, अथोपचारतः परिहारमाह-'अहवे' त्यादि || अहवा नभाईणं सादीयं, उवयाराओ, किं तदित्याह - 'संजोगादिकरणं' ति सङ्घातकरणं, आदिशब्दो द्विप्रदेशादिसंयोगाख्यस्वभेदप्रख्यापकः, किमुपचारस्य निबन्धनमित्याह - 'परपच्चयाउ'ति तेषां | परः तदवगाही घटस्तद्विनाशप्रत्ययात् तेभ्यस्तदपगमेन, तत्सङ्घातना करणं सादीति भावार्थ:, अथवा नयान्तरमास्थाय निरुपचरितमेव परिहारमाह-पर्यायादेशतो वा धर्मादीनां संघातनाकरणं सादि, न च बह्नभ्युपगमविरोधं तस्य समापादयन्ति, वस्तुनोऽनन्तधर्मात्मकत्वाद्, धर्मे धर्मे च नयमतान्तराश्रयणात् । उक्तमरूप्यजीवानादिविश्रसाकरणं, अथ रूप्यजीवसादिविस्रसाकरणमाह-'चक्खु' | इत्यादि ॥ इह सादीयं रूविवीससाकरणमपि द्वेधा, तद्यथा चाक्षुषं चक्षुर्ग्राह्यं तथा अचाक्षुषं अतद्ग्राह्यं, उदाहरणं - अभ्रन्द्रधनुरादि चाक्षुषं, स्थूलबहलाकारपरिणामपरिणतत्वात्, अणुद्वयणुकादीनां त्वितरत् एवमेतद् बहुधा संघातभेदकृतत्वात् करणता चास्य कृतिः करणं, अन्यथा वा स्वधिया वक्तव्यं, 'वीससातो य'त्ति गतम् । 'होई'त्यादि । होइ पयोगो जीववावारो तेण जं विणिम्माणं तयं बहुधा पओगकरणं भण्णति, तच्च मूलभेदतो द्विविधं कथमित्याह -- सजीवमजीवं च, सजीवं देहादि अजीवं कुसुम्भरागादि प्रतिमादि वा करणम् । अथ सजीवप्रयोगकरणं भेदेनोच्यते- 'सजीव 'मित्यादि ॥ सजीवंति - सजीवप्रयोगकरणं | द्वेधा, कथमित्याह-मूलकरणं उत्तरकरणं च तत्र पञ्चानामौदारिकादीनां 'जमादीय'ति यदादौ संघातनाकरणं तन्मृलकरणमुच्यते, 'उत्तर'त्ति उत्तरसङ्घातकरणं त्वादित्रितयस्यैव औदारिकवैक्रियाहारकस्य, तस्यैवाङ्गोपाङ्गादि, नेतरयोः । तानि चामूनि, तत्र'मूल' इत्यादि । मूलकरण मष्टानां शिरःप्रभृतीनां निर्मापनं, शरीराणां च यथासंभवं योजना, तथाऽवशेषाणां - हस्तपादाङ्गुल्यादीनां सूत्र स्पर्शिकादिकर णविचारः ॥९२४॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy