________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥ ९२३॥
| पेलुकरणादि' त्ति पेलुकरणादि पुनर्द्रव्यं, द्रव्यार्थता चात्र साध्या, किंविशिष्टमित्याह- 'दवणपरिणामं 'ति पेलुद्रव्यं तथापरिणतिकारि, अत एवाह - नैव तत्तदर्थान्वर्थशून्य करणार्थत्वात्, तथा नापि च शब्दः - शब्दमात्रमेव तद्, अपि तु द्रव्यार्थोऽपि तदिति । तदेवमस्याधस्त्याद् व्यवच्छेद उक्तः, उपरिमादभेदमुत्पश्यन् पर आह- 'जती' त्यादि । यद्येतत् पेलुकरणं 'तदर्थविहीनं' अन्वर्थशून्यं न भवति ततः किं - कस्मात् इदं द्रव्यकरणमिति प्रज्ञाप्यते १, ननु भावनिक्षेप एवास्य क्षेपो भवतु, उच्यते यतो- यस्मात्कारणात् तेन काष्ठविशेषेण द्रव्यं क्रियते प्रविततं सद् भूतं तथा वर्त्यते, ततः सञ्ज्ञाकरणं किमित्युच्यते चेदुच्यते, सञ्ज्ञाकरणमिति च तत्करणरूढेः, एतदुक्तं भवति-सञ्ज्ञा च सा करणं चेति सञ्ज्ञाकरणमिति नैव विशेषणसमासोऽङ्गीक्रियते, अपि तु सञ्ज्ञाविशिष्टं करणं सञ्ज्ञाकरणमिति ॥ द्वितीयमाह - 'नो' इत्यादि । अक्षरघटना - कस्यचित्पुनर्द्रव्यस्यापि सतः नोसंज्ञाकरणमिति व्यपदेशः पङ्कजस्याप्यपङ्कजव्यपदेशवत् । युक्तिमाह तत्क्रियाभावात् तस्य द्रव्यस्य तथाऽधिकारक्रियासद्भावात्, तच्च द्वेधा 'णोसन्नावीससपयोगे त्ति वचनात् तथा चाह भाष्यकारः - पयोगतो वीससाओ य, तत्र प्रयोगो - जीवव्यापारस्तेन निर्वृत्तं प्रायोगिक, तथा विश्रसा स्वभावोऽभिधीयते तेन निर्वृत्तं वैश्रमं, अथ विश्रसाकरणं येषां येषां यद्विधं च भवति तदाह - 'सादी' त्यादि ॥ तथा विस्रसाकरणं| स्वाभाविककरणं केषां भवतीत्याह - अजीवाथ ते द्रव्याणि चाजीवद्रव्याणि तेषामजीवद्रव्याणां मूर्त्तामूर्त्तानामिति सामर्थ्यलभ्यं, किंविशिष्टं १ - सादिकमनादिकं, वाशब्दः समुच्चयार्थः, तत्रारूप्यजीवद्रव्याणामनादि भवतीत्यत आह-धर्माधर्म नभसामनादिसङ्घातना करणं वैश्रसिकमिति, 'कृत्यलुटो बहुलमिति वचनेन करणशब्दस्यानेकार्थत्वात् । तथा च चोद्यम्- 'नणु' इत्यादि । ननु च करणमनादि चेति विरुद्धं, 'डुकृञ् करणे' इति करणस्याभूतप्रादुर्भावार्थत्वाद्, भण्यते, न दोषोऽयं, किं कारणमित्याह - 'यत्' यस्मादिह-अरूपि
सूत्रस्पर्शिकादिकरणविचारः
॥ ९२३ ॥