________________
विशेषाव० कोट्याचार्य
वृत्ती
॥९२२॥
भाव इत्यर्थः, 'संभवतो वेहात्ति अथवेह संभवतो यथापरिज्ञानं करणव्युत्पत्तयः कार्याः । भेदैराह-तं च करणं छब्धिहं-'नाम
सूत्रस्पर्शि| मित्यादि षड्विधो निक्षेपः । क्रमेण व्याख्या-'नाम' मित्यादि, नामकरणंति तावदाद्यद्वारपरामर्शः, किंविशिष्टमत आह-'नाम'- कादिकरति नामैव करणं (नाम्नो वा) पञ्चमीतत्पुरुषो, मयूरव्यंसकादिप्रक्षेपात्, तथा 'ठवणा' स्थापनाकरणं, किमत आह-करणस्य न्यासः-काष्ठा- जाणविचारः दौ विन्यासमात्रं यस्य वा करणस्य-दात्रादेयों य आकारोऽभिमतः। 'तं तेणे' त्यादि । तदिति क्रियत इति करणं द्रव्यं च तत्करणं
॥९२२॥ चेति द्रव्यकरणमिति पूर्व, करणसाधनः क्रियते अनेनेति २, 'तस्स'त्ति कृतिः करणं क्रियाया निष्पादनमिति भावसाधनः, क्रियते तस्मिन्निति वेतीत्यधिकरणसाधनः, संभवेत्यादि, 'वा' अथवा संभवतो क्रिया करणं मता, सर्वकारकनिष्पाद्यत्वाद्धात्वर्थस्य, तद्यथा'दव्यस्स दम्वेण दव्य' मित्यादि, द्रव्यकरणव्युत्पत्तयः । एतच्च आगमतो नोआगमतश्च, नोआगमतो व्यतिरिक्तं द्रव्यकरणं द्वेधासंज्ञाकरणं नोसंज्ञाकरणं चेत्याह-'दव्य' इत्यादि ॥ द्रव्यकरणं निरूपितशब्दार्थ, तुशब्दो द्वैविध्यविशेषणार्थ, संज्ञाकरणं नोसंज्ञाकरणं चेत्यर्थः, प्रथममधिकृत्याह-'सन्नाकरणं बहुह'त्ति सञ्ज्ञाविशिष्टं च तत्करणं च सज्ञाकरणं तद् बहुधा-सहस्राग्रशः, किं तदित्याह'पेलुकरणाई' इह लाटदेशे रूतपोणिका या सेव महाराष्ट्रकविषये पेलुरित्युच्यते तस्याः करण काष्ठमयी शलाका पेलुकरणं आदिशब्दात्काण्डकरणं लेखिन्यादि परिगृह्यते । मूरिः पराभिप्रायमाशङ्कते, स्यान्मतिर्भवतः-सझेति नाम भण्यते इत्येवंकृत्वा नामकरणमेवैतत् पर्यायशब्दमात्रभेदात् , किं द्रव्यमध्य इदं ?, तल्लक्षणत्वाद् , उच्यते, तन्न, कुत इत्याह-यत्-यस्मानामाभिधानं अभिधानमात्रं, इदं तु न तथा, अन्वर्थयुक्तत्वात्, तथाहि-क्रियतेऽनेनेति करणमित्यर्थोऽस्यास्तीति ॥ अथ नामद्रव्यकरणयोरेव विशेषसिद्धयर्थमाह|'जं वेत्यादि । यद्वाऽभिधानं 'तदर्थविकले' भावेन्द्रार्थशून्ये क्वचिद् गोपालदारकादौ क्रियते तन्नाम, अन्वर्थत्यक्तत्वात् , 'दव्वं तु
MR-4-NENEUROLX