________________
विशेषाव कोव्याचार्य
सूत्रस्पर्शिकादिकरणविचारः ॥९२१॥
॥९२१॥
तेयाकम्माणं पुण संताणोऽणाइओन संघाओ। भव्वाण होज साडो सेलेसीचरिमसमयम्मि ॥४०८२॥ उभयं अणाइनिहणं संत भव्बाण होज केसिंचि । अंतरमणाइभावा अञ्चतविओगओ णेसिं॥४०८३॥ अज्जीवाणं करणं नेय पडसंखसगडथूणाणं । संघायणपरिसाडणमुभयं तह नोभयं चेव ॥४०८।। जं जं निजीवाणं कीरइ जीवप्पओगओ तं तं । बन्नाह रूवकम्माइ वावि तदजीवकरणंति ॥४०८५॥
'एत्थ य' इत्यादि ।। अत्र गणभृदृब्धसूत्रव्याख्यानविधौ सूत्रानुगमोऽनुगमद्वितीयभेदः, तथा सूत्रालापककृतश्च |निक्षेपो निक्षेपतृतीयभेदः, तथा सूत्रस्पर्शनियुक्त्यनुगमो नियुक्त्यनुगमचरमभेदः, तथा नयाश्च चरममूलद्वारभाविनः प्रति
सूत्रमायोज्याः श्रोतारमपेक्ष्येति । तत्र सूत्रानुगमे सूत्रमुच्चारणीयं, तद्यथा-अहीणक्खरं अणचक्खरं अवाइद्धक्खरं अक्खलितमित्यादि, | आह च-'अणु' इत्यादि, गतार्था ॥ तच्चेदं सूत्रं-'करेमि भंते ! सामाइय' मित्येवमादि सर्वमुच्चारणीयम्, एवं स्थिते सतीदमपरमाह'तस्से' त्यादि ॥ तस्य सूत्रस्य सूत्रस्पर्श भणामि, किंविशिष्टः सन्नित्यत उच्यते-'कतपदण्णासो' कृतपदन्यासः, पदन्यासपूर्वकमित्यर्थः, तथा तत्रैव सूत्रस्पर्श सूत्रालापकन्यासं 'नाम करण'मित्यादिना तथा नयांश्च संभवतो वक्ष्ये, पुनः क्रियाऽभिधानं नयानुयोगप्राधान्यख्यापनार्थ, तत्र पदानि विच्छिद्य दर्शयन्नाह नियुक्तिकारः-करणे' इत्यादि ॥ 'सुत्त'मित्यादि । सुत्तमिति सूत्रं यदुच्चा|रितं तत्रादौ करोमीति भणिते सोपपत्तिकं यद् गम्यते तदाह-धाऊ विहितो यतो डुकृञ् करणे तेन करोमिवचनतः-तेन क्रिया
करणवचनसकाशात् किमत आह-करणं गम्यते 'तदत्थोत्ति धात्वर्थो गम्यते । 'करण'मित्यादि । अथवेहेदं सूत्रखण्डं संभवतो | मा यथासभवं पर्यायध्वनिभिर्व्याख्येयं, तद्यथा-'करणं किरिया भावो ति करणं-कृतिः क्रिया-कृतिः भावः करणं, अथवा करणं क्रिया