SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ विशेषाव ० कोट्याचार्य वृत्तौ ॥९९२॥ तथा नमस्कारः सर्वार्थेष्वविघ्न हेतुर्मङ्गलमेवमयं मङ्गलागमथ, स च प्रयोजनम् ॥ अथ सामान्येनाईदादिनमस्कारस्वरूपाद्याह- 'सुत' इत्यादि ॥ तको - नमस्कारः श्रुतं, आगम इत्यर्थः, स च श्रुतोपयोगप्रयोजनः श्रुतोपयोगः फलमस्येति श्रुतोपयोगप्रयोजनः, तच्च श्रुतोपयोगफलमस्य नमस्कर्तुर्बहुत्रिकल्पं, किंविशिष्टमित्याह-आत्महित परिज्ञानं विषयपरिणामनिवृत्तिः भावसंवरः णवणवसंवेगात् श्रद्धा, आदिशब्दादचिन्त्यचरितानुष्ठानादि गृह्यते, एतत्प्रभावोऽयं पञ्चनमस्कारः । एवमुक्ते सत्याह- 'पूया' इत्यादि ॥ नहि जिनसिद्धौ नमःपूजाफलप्रदौ कोपरहितत्वेन प्रसादरहितत्वेन च, वैधर्म्येण नृपादयः । तथा- 'पूया' इत्यादि । विफला सिद्धादिपूजेति, न सिद्धाः पूजायां कृतायामपि फलं ददतीत्यर्थः, इयं प्रतिज्ञा, हेतूनाह - 'पूयाणुवगारओ' त्ति पूजयाऽनुपक्रियमाणत्वात्, तदपरिग्राहित्वादमूर्त्तत्वात् दूरत्वात् दूरदूरत्वादाकाशवत् । द्वारगाथे । अत्राचार्योऽनभ्युपगतोपालम्भतया प्रतिज्ञाया निर्विषयत्वं दर्शयन् सिद्धसाध्यतामाह- 'जिण' इत्यादि ॥ जिनसिद्धौ पूजायां नमस्कारकर्तुः फलं यच्छत इति केन चेदं प्रतिज्ञातं ?, आह- नमस्कार| फलमिहामुष्मिकमुक्तमुदाहरणप्रयोगात्, न तस्यान्यथासिद्धत्वात्, अन्यथासिद्धत्वं च - 'धम्मे' त्यादि पच्छद्धं कंठं । ततः किमित्यत आह- 'ते य' इत्यादि ॥ तौ च धर्माधर्मौ अनुग्राहकगतौ 'यतः' यस्माज्जीवगुणाः तस्यैव धर्मास्तेनान्यस्मै कस्मैचिदनुग्राह्याय न देयाः, न वा तेनानुग्राह्येण ततः समादेयाः, किं कारणमित्याह- 'कते' त्यादि भावितार्थम् । अपिच - 'ना' इत्यादि ॥ यतश्च'पूजाफलं ' नमस्कारफलमभिमतं ज्ञानानाबाधसुखं मोक्षः, ततः किमित्यत आह-तन देयं नमस्कारकर्त्रे ताभ्यां जिनसिद्धाभ्यां आत्मपर्यायत्वात् जीवादिभाववत्, आदिशब्दाच्चैतन्यभावः, अतो निर्विषयः प्राक्प्रतिषेध इति सिद्धसाधनात् । एवं तावद्धर्माधर्मौ न परप्रदेयाविदं तु परप्रदेयमित्याह - 'भत्ता' इत्यादि । इह भक्तं- शाल्योदनादि देयं भवेत् प्रकृतिसिद्धत्वात् उभयसङ्गतवस्तुवत्, नमस्कारपूजाभ्यां फलसिद्धिः ॥९१२ ॥
SR No.600321
Book TitleVisheshavashyak Bhashyam Uttararddh
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages496
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy