________________
विशेषाव ० कोट्याचार्य
वृत्तौ
॥९११ ॥
तेण सुहालवणओ परिणामविसुद्धिमिच्छया निच्चं । कज्जा जिणाइपूया भव्वाणं बोहणत्थं च ||४०३७|| कयपंचनमोकारो करेइ सामाइयं तु (ति) सोऽभिहिओ । सामइयंगमेव य जं सो सेसं अओ वोच्छं ॥ ४०३८ ॥ 'एत्थ' इत्यादि ।। अत्र च पञ्चविधनमस्कार करणे प्रयोजनमिदं यदुत करणकाल एवाक्षेपेण कर्मक्षयः ज्ञानावरणीयादिकर्म मलापगमः, अन्तः कर्ममलापगमः, अन्तःकर्म पुद्गलापगमाभावे नकारस्याप्यभावात् तथा मङ्गलागमश्चैव यः स्वात्मनि तदैव मङ्गलपरिणामो, नवनवसंवेगश्रद्धेत्यर्थः । दारं । फलं तु कालान्तरभावि द्विविधं - ऐहिकं पारलौकिकं चेति । तत्र दृष्टान्ता वक्ष्यमाणाः - 'इहे'त्यादि ॥ इह लोके अर्थकामौ फलं भवतः, तथा 'आरोग्यं' नीरुक्त्वं भवति, एते चार्थादयोऽवश्यं शुभविपाकिनो भवन्ति, यत आह- 'अभिरतिश्च' आभिमुख्येन रतिरिह लोकेऽर्थादिभ्यो भवति, परलोके च तेभ्य एव शुभानुबन्धित्वान्निष्पत्तिः, पुण्यस्येति गम्यते, अथवाऽभिरतेर्निष्पत्तिरित्येकवाक्यतैवेति । तथा परलोके च फलं सिद्धिः - निर्वाणं तथा स्वर्गः तथा सुकुल प्रत्यायातिश्च, सिद्धिग्रहणं प्राधान्यख्यापनार्थ, अन्यथा प्रविरलाः सिद्ध्यन्ति एकभवेन, असिद्ध्यमानास्तु स्वर्गादिष्वेव यान्तीति ॥ साम्प्रतं यथाक्रममे - वार्थादीनधिकृत्योदाहरणान्याह - 'इहलोगम्मी' त्यादि मूलटीकातो ज्ञेयानि । अथ भाष्यकारः प्रयोजनं फलं चाह - 'सत' इत्यादि । इहेवत्तीदानीमेव तत्प्रयोजनं, किमत आह- सततोपयोगक्रियया नमस्कारविषयो यो गुणलाभः, याः कर्मक्षयक्षयोपशमोद्भवा लब्धय | इत्यर्थः । नियुक्तिकारार्द्धतृतीय गाथान्याचिख्यासुराह पच्छद्धं फलं तु 'कालान्तरनिष्पत्तिः कालान्तराविर्भावि, क्वेत्याह-' इह'त्ति इहलोकेऽर्थकामारोग्याभिरतिनिवृत्यादीनि, 'परलोके' स्वर्गादौ 'मोक्षे च' निर्वाणेऽत्यन्तसुखावाप्तिरिति ॥ अथवेदं प्रयोजनमित्याह- 'कम्मे' त्यादि || 'तल्लाभ एव' नमस्कारलाभ एव यः कर्मक्षयोऽनुसमयं तदुपयोगात् स प्रयोजनं तत्प्रयुक्तमयोगात्,
नमस्कारपूजाभ्यां फलसिद्धिः
।।९११॥