Book Title: Visheshavashyak Bhashyam Uttararddh
Author(s): Jinbhadra Gani Kshamashraman
Publisher: Rushabhdev Keshrimal Shwetambar Samstha

View full book text
Previous | Next

Page 429
________________ विशेषाव कोव्याचार्य सूत्रस्पर्शिकादिकरणविचारः ॥९२१॥ ॥९२१॥ तेयाकम्माणं पुण संताणोऽणाइओन संघाओ। भव्वाण होज साडो सेलेसीचरिमसमयम्मि ॥४०८२॥ उभयं अणाइनिहणं संत भव्बाण होज केसिंचि । अंतरमणाइभावा अञ्चतविओगओ णेसिं॥४०८३॥ अज्जीवाणं करणं नेय पडसंखसगडथूणाणं । संघायणपरिसाडणमुभयं तह नोभयं चेव ॥४०८।। जं जं निजीवाणं कीरइ जीवप्पओगओ तं तं । बन्नाह रूवकम्माइ वावि तदजीवकरणंति ॥४०८५॥ 'एत्थ य' इत्यादि ।। अत्र गणभृदृब्धसूत्रव्याख्यानविधौ सूत्रानुगमोऽनुगमद्वितीयभेदः, तथा सूत्रालापककृतश्च |निक्षेपो निक्षेपतृतीयभेदः, तथा सूत्रस्पर्शनियुक्त्यनुगमो नियुक्त्यनुगमचरमभेदः, तथा नयाश्च चरममूलद्वारभाविनः प्रति सूत्रमायोज्याः श्रोतारमपेक्ष्येति । तत्र सूत्रानुगमे सूत्रमुच्चारणीयं, तद्यथा-अहीणक्खरं अणचक्खरं अवाइद्धक्खरं अक्खलितमित्यादि, | आह च-'अणु' इत्यादि, गतार्था ॥ तच्चेदं सूत्रं-'करेमि भंते ! सामाइय' मित्येवमादि सर्वमुच्चारणीयम्, एवं स्थिते सतीदमपरमाह'तस्से' त्यादि ॥ तस्य सूत्रस्य सूत्रस्पर्श भणामि, किंविशिष्टः सन्नित्यत उच्यते-'कतपदण्णासो' कृतपदन्यासः, पदन्यासपूर्वकमित्यर्थः, तथा तत्रैव सूत्रस्पर्श सूत्रालापकन्यासं 'नाम करण'मित्यादिना तथा नयांश्च संभवतो वक्ष्ये, पुनः क्रियाऽभिधानं नयानुयोगप्राधान्यख्यापनार्थ, तत्र पदानि विच्छिद्य दर्शयन्नाह नियुक्तिकारः-करणे' इत्यादि ॥ 'सुत्त'मित्यादि । सुत्तमिति सूत्रं यदुच्चा|रितं तत्रादौ करोमीति भणिते सोपपत्तिकं यद् गम्यते तदाह-धाऊ विहितो यतो डुकृञ् करणे तेन करोमिवचनतः-तेन क्रिया करणवचनसकाशात् किमत आह-करणं गम्यते 'तदत्थोत्ति धात्वर्थो गम्यते । 'करण'मित्यादि । अथवेहेदं सूत्रखण्डं संभवतो | मा यथासभवं पर्यायध्वनिभिर्व्याख्येयं, तद्यथा-'करणं किरिया भावो ति करणं-कृतिः क्रिया-कृतिः भावः करणं, अथवा करणं क्रिया

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496