Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 168
________________ विचाररत्नाकरः ॥ 88 हस्तिनां सहस्राणि, एवं रथानामश्वानां मनुष्याणां च प्रत्येकं तिस्रः तिस्रः कोट्य: कूणिकस्याप्येवमेव तत एकादशभागीकृतराज्यस्य कूणिकस्य कालादिभिः सह निजेन एकादशांशेन सङ्ग्रामे काल उपागतः एतमर्थं वक्तुमाह-तए णं से काले' इत्यादिना एनं च व्यतिकरं ज्ञात्वा चेटकेनाऽप्यष्टादश गणराजानो मेलिताः, तेषां चेटकस्य च प्रत्येकमेवमेव हस्त्यादिबलपरिमाणम्, ततो युद्धं सम्प्रलग्नम्, ॐ चेटकराजस्य तु प्रतिपन्नव्रतत्वेन दिनमध्ये एकमेव शरं मुञ्चत्यमोघबाणश्च सः, तत्र कूणिकसैन्ये गरुडव्यूहः, चेटकसैन्ये सागरव्यूहो विरचितः । ततश्च कूणिकस्य कालो दण्डनायको निजबलान्वितो युद्ध्यमानस्तावद्गतो यावच्चेटकः, ततस्तेन शरनिपातेनासौ निपातितो भग्नं च कूणिकबलम्, गते च द्वे अपि बले निजं निजमावासस्थानम् । द्वितीयेऽह्नि सुकालो नाम दण्डनायको निजबलान्वितो युद्ध्यमानस्तावद्गतो यावच्चेटकः, एवं सोऽप्येकशरेण निपातितः । एवं तृतीयेऽह्नि महाकालः सोऽप्येवम् । चतुर्थेऽह्नि कृष्णकुमारः सोऽप्येवमेव । पञ्चमे सुकृष्णः ५ । षष्ठे महाकृष्णः ६ । सप्तमे वीरकृष्णः ७ । अष्टमे रामकृष्णः ८ । नवमे पितृसेनकृष्णः ९ । दशमे पितृमहासेनकृष्णः १० । चेटकेन एकैकशरेण निपातिताः । एवं दशसु दिनेषु चेटकेन विनाशिता दशापि कालादयः । एकादशे तु दिवसे चेटकजार्थं देवताराधनाय कुणिकोऽष्टमभक्तं प्रजग्राह ततः शक्रचमरावागतौ ततः शक्रो बभाषे - चेटक : श्रावक इत्यहं न तं प्रति प्रहरामि नवरं भवन्तं संरक्षामि, ततोऽसो तद्रक्षार्थं वज्रप्रतिरूपमभेद्यकवचं कृतवान् । चमरस्तु द्वौ सङ्ग्रामौ विकुर्वितवान्, महाशिलाकण्टकः रथमुशलं चेति, तत्र महाशिलेव कण्टकजीवभेदकत्वान्महाशिलाकण्टकः, ततश्च यत्र तृणशूलादिनाऽप्यभिहतस्याश्वहस्त्यादेर्महाशिलाकण्टकेनेवास्याहतस्य वेदना जायते स सङ्ग्रामो महाशिलाकण्टक एवोच्यते । ' रथमुशले ' इति यत्र रथो मुशलेन युक्तः परिधावन् महाजनक्षयं कृतवान् अस रथ: । ' ओपाए ' इति उपपातः संप्राप्तः ' किं जइस्सइ ' इति जयश्लाघां प्राप्स्यति पराजेष्यते अभिभविष्यति परस्यैन्यं परानभिभविष्यति उत नेत्यादि । श्रीनिरयावलिसूत्रवृत्तौ । 1194411 इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्त्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे मध्यभागे निरयावलिविचारनामाऽष्टमस्तरङ्गः ।। ८ ।। यस्मादयं समग्रो, व्यवहारो जृम्भते जगन्मध्ये । तदहं धृतबहुमानं विधिना सेवे श्रुतज्ञानम् ॥ १ ॥ သာ သ ာ သ ာ ာာာာာာာာာာာာာာားပြီ 1194411

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298