Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
विचार- 1888 च ते दिवसाश्च प्रतिकुष्टेल्लकदिवसाः - प्रतिषिद्धा दिवसास्तान् वर्जयेत्, तानेव नामत आह-द्वयोरपि शुक्लकृष्णरूपयोः पक्षयोरष्टमी नवमीं रत्नाकरः ॥ 888 षष्ठीं चतुर्थी द्वादशीं च, एता हि तिथयः शुभप्रयोजनेषु सर्वेष्वपि स्वभावत एव प्रतिकूलास्ततो वर्जनीयाः, इदं कालतोऽप्रशस्तं वर्ज्यम् । सन्ध्यागतादिनक्षत्रं तदेवाह- संज्झागयं १ रविगयं, २ विड्डेरं ३ संग्गहं ४ विलंबिं ५ च । राहुहयं ६ गहभिन्नं ७, वज्जेज्जा सत्तनक्खत्ते ॥ ६ ॥ सन्ध्यागतं नाम यत्र नक्षत्रे सूर्योऽनन्तरं स्थास्यति तत् आदित्यपृष्टस्थितम्, अन्ये पुना राहुर्यस्मिन्नुदिते सूर्य उदेति तत् सन्ध्यागतम्, अपरे त्वेवं ब्रुवते यत्र रविस्तिष्ठति तस्माच्चतुर्दशं पञ्चदशं वा नक्षत्रं सन्धयागतम्, रविगतं यत्र रविस्तिष्ठति, पूर्वद्वारिके नक्षत्रे पूर्वदिशागन्तव्ये यदा अपरया दिशा गच्छति तदा तद्विद्वारं विगतद्वारमित्यर्थः, यत्क्रूरग्रहेणाक्रान्तं तत्सग्रहम्, विलम्बि-यत्सूर्येण परिभुज्य मुक्तम्, अन्ये वा :- सूर्यस्य पृष्टोऽग्रतो वाऽनन्तरं नक्षत्रं सन्ध्यागतम्, यत्पुनः सूरगतान्नक्षत्रात्पृष्टतस्तृतीयं तद्विलम्वि इति । राहुहतं यत्र सूर्यस्य चन्द्रस्य वा ग्रहणम्, यस्य मध्येन ग्रहोऽगमत् तद्ग्रहभिन्नम्, एतानि सप्तनक्षत्राणि चन्द्रयोगयुक्तानि वर्जयेत् । यत एतेष्विमे दोषाः संज्झागयंमि कलहो, होइ कुभत्तं विलंबिनक्खत्ते । विड्डेरे परविजयो, आइच्चगए अनिव्वाणी ॥ ७ ॥ जं सग्गहंमि कीरड़, नक्खत्ते तत्थ वुग्गहो होइ । राहुहयंमि अ मरणं, गहभिन्ने सोणिउग्गालो ॥ ८ ॥ सन्ध्यागते नक्षत्रे सुभेषु प्रयोजनेषु प्रारभ्यमाणेषु कलहो - राटिर्भवति, विलम्बिनक्षत्रे कुभक्तम्, विद्वारे परेषां शत्रूणां विजयः, आदित्यगते - रविगते अनिर्वाणि:- असुखम्, सग्रहे पुनर्नक्षत्रे यत्क्रियते तत्र व्युद्ग्रहः सङ्ग्रामो भवति, राहुहते मरणम्, ग्रहभिन्ने शोणितोद्गार :- शोणितविनिर्गमः, एवं भूतेष्वप्रशस्तद्रव्यक्षेत्रकालभावेषु नालोचयेत्, किं तु प्रशस्तेषु । तत्र प्रशस्ते द्रव्ये शाल्यादिप्रशस्तधान्यराशिषु मणिकनकमौक्तिकवज्रवैडूर्यपद्मरागादिराशिषु च । प्रशस्तं क्षेत्रं साक्षादाह-तप्पडिवक्खे खेत्ते, उच्छुवणे सालिचेइयघरे वा । गंभीरसाणुणाए, पयाहिणावत्त उदए य ।। ९ ।। तस्य प्रागुक्तस्याप्रशस्तस्य क्षेत्रस्य प्रतिपक्षे प्रशस्ते क्षेत्रे इक्षुवने, उपलक्षणमेतत्, आरामे वा पत्रपुष्पफलोपेते 'सालि' त्ति, वनशब्दोऽत्रापि सम्बध्यते, शालिवने चैत्यगृहे वा, वाशब्दो विकल्प तथा गम्भीरे गम्भीरं नाम भग्नत्वादिदोषवर्जितम्, शेषजनेन च प्रायेणालक्षणीयमध्यभागं स्थानं गम्भीरमिति वचनात्, सानुनादे यत्रोच्चारिते शब्दे प्रतिशब्दः समन्तादुत्तिष्ठति तत्सानुनादम्, प्रदक्षिणावर्त्तमुदकं यत्र नद्यां पद्मसरसि वा तत्प्रदक्षिणावर्त्तोदकं तस्मिन् वा चशब्दो वाशब्दार्थः क्वचिद्वाशब्दस्यैव पाठः, प्रशस्तं कालमाह- उत्तदिणसेसकाले, उच्चट्ठाणा गहा य भावंमि । पुव्वदिसउत्तरा वा, चरंतिया जाव
1122411
8888888888888888888
1122411

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298