Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
| केवलीनांॐ १८ दोष--
सहितत्व
विचार- 68 सूत्रमुक्तम् । अथ तयोः कथञ्चिद्भेदोऽप्यस्तीति दर्शयितुं पूर्वोक्तमेवार्थं व्यधिकरणत आह-'आरंभे' इत्यादि, आरम्भे अधिकरणभूते
वर्त्तते जीवः, एवं संरम्भे समारम्भे च । अनन्तरोक्तवाक्यार्थद्वयानुवादेन प्रकृतयोजनामाह-आरम्भमाणः संरम्भमाणः समारम्भमाणो जीवः, इत्यनेन प्रथमो वाक्यार्थोऽनूदितः । आरम्भे वर्तमाने, इत्यादिना तु द्वितीयः, 'दुक्खावणताए' इत्यादौ ताशब्दस्य प्राकृतप्रभवत्वात् दुःखापनायां-मरणलक्षणदुःखप्रापणायाम्, अथवा इष्टवियोगादिदुःखखहेतुप्रापणायां वर्तते, इति योगः । तथा शोकापनायां-दैन्यप्रापणायां
'जूरावणताए' ति शोकातिरेकाच्छरीरजीर्णताप्रापणायां ' तिप्पावणताए' ति तेपापनायां 'तेपृष्ठेपृक्षरणार्थे ' इति वचनात्, ||२७८॥
शोकातिरेकादेवाश्रुलालादिक्षरणप्रापणायां, 'पिट्टावणयाए' त्ति पिट्टनप्रापणायां ततश्च परितापनायां शरीरसन्तापे वर्तते, क्वचित्पठ्यते 'दुक्खावणयाए' इत्यादि तच्च व्यक्तमेव, यच्च तत्र 'किलामणयाए उद्दावणयाए' । इत्यधिकमभिधीयते । तत्र 'किलामणयाए' ति ग्लानिनयने, ' उद्दावणयाए' त्ति उत्त्रासने, उत्कार्थविपर्ययमाह-'जीवेणं' इत्यादि, 'णो एयइ 'त्ति शैलेशीकरणे योगनिरोधान्नो एजते, इति । एजनादिरहितस्तु नारम्भादिषु वर्तते । तथा च न प्राणादीनां दुःखापनोदिषु तथा च योगनिरोधाभिधानशुक्लध्यानेन सकलकर्मध्वंसरूपाऽन्तक्रिया भवति । इति श्रीभगवतीसूत्रवृत्तौ तृतीयशतके तृतीयचमराख्योद्देशके ४८७ प्रतौ १०२ । १०३ पत्रे ॥ ८७ ।।
इत्थं च केवलिशरीराज्जीवविराधनाऽङ्गीकारे कथं तस्याष्टादशदोषरहितत्वमित्यादिका या तवोक्तिः सा तु अत्यन्तमसमीचीना । एवं चोभयमतसम्मते सुसाधुशरीराज्जीवविराधनास्वीकारे तस्य साधोश्चतुर्महावतित्वं वदतोऽपि ते मुखरस्य किमयुक्तं स्यात्, इति त्यज्यतामयं कठिनो हठः, इति ।
ननु प्रकरणाद्युक्तत्वात् योगोद्वहनं नास्माकमनुमतम् । यदि क्वाऽप्याचाराङ्गादौ श्रुते स्पष्टाक्षरैर्योगोद्वहनं स्यात्तर्हि मन्यत एव । एवं वयस्य ! अतिचमत्कृता स्मः, तव मुखादप्येतादृशाक्षरोद्गमैर्विषकुण्डादिव पीयूषबुबुदैः शृणु तावत्सकर्णो भूत्वा साक्षात्सिद्धान्ताक्षराणि योगोद्वहनविषयाणि-तीहिं ठाणेहिं संपन्नेहि अणगारे अणादीयं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं वितीवएज्जा तंजहाअणिदाणताए दिद्विसंपन्नयाए जोगं वाहिताए ॥ वृत्तिर्यथा-' तिहिं' इत्यादि, कंठ्यम् । नवरं-अनादिकं आदिरहितं, अनवदग्रं-अनन्तं, । दीर्घाध्वं- दीर्घमार्ग, चत्वारोऽन्ताविभागा नरकगत्यादयो यस्य तच्चतुरन्तदीर्घत्वं प्राकृतत्वात्, संसारं एव कान्तारं तद्व्यतिव्रजेत्-व्यतिक्रामेदिति,
२७८।।

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298