Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
विचार-
रत्नाकर
१८ दोषसहितत्व
112081
किं वा तस्य केवलित्वमित्येवं वादिनस्तमाशातयन्तीति । हं हो त्रिभुवनादंभस्तंभायितश्रीतपागणघुण ! सम्यग्स्वस्वरूपानुरूपमभिहितवानसि । केवली पापचिकृता तुल्य इति तु सतां वक्तुमप्यनुचितं, यदि वा सतां वक्तुमनुचितं तर्हि तव किम्, परं वयं त्वेवं ब्रूमः-अवश्यंभावितया यदि केवलिकायाज्जीवविराधना स्यात्तदा निषेधो नास्ति, केवलं केवले समुत्पन्ने ज्ञान एव विशेषो, न तु शरीरे कश्चिद्विशेषो भवति । तथा (नव) वर्षजस्य केवलिनो नूलपादोत्पत्तिप्रसक्तेः । किंच यदि कलहकोलाहलं विहाय क्षणं स्वस्थो भवसि तर्हि त्वमेव प्रष्टव्योऽसि देशोनपूर्वकोटिं यावद्विहरमाणः केवली एजनव्यजनकम्पनस्पन्दनादिधपितसयोगिजीवपक्षान्तःपाती वा निरेजननिळजनायोगिजीवपक्षान्तःपाती वा ? अयोगिजीवपक्षान्तःपातीति तु त्वयाऽपि न वाच्यमेव अपसिद्धान्तात्, त्वामपि पंडितं वदन्तो जनाः श्रूयन्ते इति । यदि च सैजनसव्यजनादिधर्मोपतसयोगिपक्षान्तःपाती स तर्हि तस्य तु आरम्भसारम्भसमारम्भादिकमुक्तमेव स्फुटाक्षरैर्भगवता, मा मा च केवलिन आरम्भकः कृषिवाणिज्यादिकोऽन्यो वेत्यादि वदन् स्वपांडित्यस्वरूपमद्याप्यज्ञातचरं प्रकटीकुर्वीथाः । यदाह-" कोकिलकदम्बकस्थः, कूजति काको न यावदतिकटुकम् । तावन्न हि निर्णेतुं, शक्यो वर्णादिसाधर्म्यात् ॥ १॥" अनन्तरोक्तदूषणं तु तीर्थङ्करगणधरयोर्वाक्ये वक्तुं तवैव धाय नास्माकम्, अदुष्टश्चायमर्थो यथासम्भवं योजनात् । केवलिनो हि अवश्यंभावभाविनी चलशरीरैजनव्यजनजाता सर्वसंवरचारित्राविरोधिनी जीवविराधनैव । आरम्भादिकं जानन्नपि सर्ववित् कथं तान् हिनस्तीत्यादिकं यत्तव ग्राहिल्यं तत्तु अत्रैवाऽऽचाराङ्गाभगवतीप्रज्ञापनाविचारतरङ्गेषु सम्यग् निराकृतमेव । तथा च हुस्वपञ्चाक्षरोच्चारमात्रकालायां शैलेश्यवस्थायां जन्तुविराधना भवति, देशोनपूर्वकोटिकालायां सयोगितायां तु न भवतीत्यादिका या तव वाग्मिता सा तवैवानुरूपेति त्वय्येव तिष्ठतु, नान्यत्र प्रसरतु । अलं प्रसङ्गेन । यदि धर्मबुद्धिस्तर्हि 'जीवेणं भंते ? सया समियं एयइ' इत्यादिसूत्रं क्वचिदारामादौ गत्वा चिरमालोचनीयं यथा कदाचित्कर्मलाघवाद्भवत्यपि सुमतिः । सूत्रं च तदिदमुपकाराय लिख्यते
“जीवेणं भंते ! सया समियं एयति वेयति चलति फंदति घट्टति खुब्भइ उदीरइ तं तं भावं परिणमइ ? हंता मंडियपुत्ता ! जीवेणं सया समियं एयइ जाव तं तं भावं परिणमइ । जावं च णं से जीवे सया समियं जाव परिणमइ तावं च णं तस्स जीवस्स अंते अंतकिरिया भवइ ? नो तिणढे समढे, से केणद्वेणं भंते ! एवं वुच्चइ जावं च णं से जीवे सया समितं जाव अंते अंतरकिरिया न भवति ? मंडियपुत्ता !
PRO
1
॥२७६॥

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298