Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
रत्नाकर
||२७५।।
गृहनसुखान्नि:पिष्टपद्मरागचूर्णशोणतलपादकमलपाणिप्रहाराच्च झटिति प्रसूनपल्लावादिप्रभवः स्पर्शनेन्द्रियज्ञानस्य स्पष्टं लिङ्गमभिवीक्ष्यते Jae ततश्च यथैतेषु द्रव्येन्द्रियासत्त्वेऽपि एतद्भावेन्द्रियज्ञानं सकलजनप्रसिद्धमस्ति तथा द्रव्यश्रुताभावे भावश्रुतमपि भविष्यति । दृश्यते हि जलाद्याहारोपजीवद्वनस्पतीनामाहारसंज्ञा । सङ्कोचवल्ल्यादीनां तु हस्तस्पर्शादिभीत्याऽवयवसङ्कोचनादिभ्यो भयसंज्ञा । विरहकचंपककेसराशोकादीनां तु मैथुनसंज्ञा दर्शितैव । बिल्वपलाशादीनां तु निधानीकृतद्रव्योपरि पादमोचनादिभ्यः परिग्रहसंज्ञा । न चैताः संज्ञा भावश्रुतमन्तरेणोपपद्यन्ते तस्माद्भावेन्द्रियपञ्चकावरणक्षयोपशमादावेन्द्रियपञ्चकज्ञानवद्भावश्रुतावरणक्षयोपशमसद्भावद्रव्यश्रुताभावेऽपि यच्च यावच्च भावश्रुतमस्त्येवैकेन्द्रियाणामित्यलं विस्तरेण । तर्हि जं विनाणं सुआणुसारेणेति श्रुतलक्षणं व्यभिचारि प्राप्नोति श्रुतानुसारित्वमन्तरेणाप्येकेन्द्रियाणां भाक्श्रुताभ्युपगमादिति चेन्नैवमभिप्रायापरिज्ञानात्, शब्दोल्लेखसहितं विशिष्टमेव भाक्श्रुतमाश्रत्यि तल्लक्षणमुक्तम्, यच्चैकेन्द्रियाणामोधिकविशिष्टं भावश्रुतमानं तदावरणक्षयोपशमस्वरूपं तत् श्रुतानुसारित्वमन्तरेणापि यदि भवति तथाऽपि न कश्चिद्व्यभिचार इति गाथार्थः ।। १०२॥ इति श्रीविशेषावश्यकनियुक्तिवृत्तौ ॥ ८४ ॥
शालि १ व्रीहि २ गोधूम ३ यव ४ यवयवानां ५ त्रीणि वर्षाणि जीवत्वम् । तिलमुद्गादीनां द्विदलानां पञ्चवर्षाणि । अतसी १ कुसुंभ २ कोद्रव ३ कङ्ग ४ बरट ५ सलग ६कोडूसग ७ शण ८ सर्षपमूलबीजादीनां सप्तवर्षाणि । इति श्रीभगवतीषष्ठशतकसप्तमोद्देशके वृत्तौ ॥ ८५ ॥
अथ साधुभिर्नखा न रक्षणीयाः । 'केसरोमनखसमारया' इत्याद्यालोचनं तु भूषानिमितं सुन्दरताकरणविषयं बोध्यम् । नखवृद्धौ च दोषा यथा-पादनखा दीर्घाश्चङ्क्रमणे उपलादिषु आस्फिटन्ति भज्यन्ते वा । हस्तनखा दीर्घा भाजने लेपं विनाशयन्ति, देहे वा क्षतं कुर्वन्ति । तथा लोको भणेदेष कामी, कामिनीकृतक्षतत्वादिति । लोक्श्च भणति दीर्घनखान्तरे संज्ञास्तिष्ठन्त्यतोऽशुचय एवैते । पादनखेषु च दीर्घ-ष्वन्तरे रेणुस्तिष्ठति यावच्चक्षुरुपहन्यते, एतद्दोषपरिहरणार्थं नखकर्तनकुर्वन्नपि शुद्धः स्यात् । इत श्रीयतिजीतवृत्तौ ॥ ८६ ॥
ननु च जानन्नपि केवली यदि जन्तुसङ्घातघातमाचरति तर्हि पापर्द्धिकृत्केवलिनोः कः प्रतिविशेषः ? कथं वा तस्याष्टादशदोषरहितत्वम् ? ||२७५|| . श्री अभयदेवसूरीश्वरकृतवृत्तौ अयं पाठो नास्ति, ततो मूलवृत्तौ भविष्यतीति सम्भाव्यते.

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298