Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
रत्नाकरः । 888
विचार सम्भाव्यन्ते । यदि च खरतरगच्छीया स्युस्तर्हि कल्याणकानि पञ्चेति कथं व्याख्यातवन्त । व्याख्यातानि च तानि तैस्तथा यथा- पंच महाकल्लास्णा, सव्वेसिं जिणाण होइ नियमेण । भुवणच्छेरयभूया, कल्लाण फला य जीवाणं ॥ १ ॥ गमे २ जम्मे २ य तहा, निक्खमणे ३ चेव णाण ४ निव्वाणे ५ । भुवणगुरूण जिणाणं, कल्लाणा होंति णायव्वा ॥ २ ॥ इति श्रीहरिभद्रसूरिकृतयात्रापञ्चाशके ॥ १० ॥ श्रीअभयदेवसूरिकृता वृत्तिर्यथा - पञ्चैव कल्याणकानि परमश्रेयांसीति ॥ ७९ ॥
अथास्थापिताचार्यपदे भट्टारके परासौ सति यत्कर्त्तव्यं तल्लिख्यते
1120311
आशुकारेण शूलादिनोपरतः कालगत: आशुकारोपरतस्तस्मिन् सत्याचार्येऽस्थापितेऽन्यस्मिन् गणधरे इयं वक्ष्यमाणमर्यादा । तामेवाह-' चिलिमिलिं' इत्यादि, आशुकारोपरत आचार्यो जवनिकान्तरितः प्रच्छन्नः कार्यः । वक्तव्यं चाचार्याणामतीवाशुभं शरीरं, वाचाऽपि वक्तुं न शक्नुवन्तीति । ततो यो मतिमान् गणधराभिमुखस्तं दर्शयन्ति । गणत्वमेतस्यानुज्ञातं, परं वाचा वक्तुं न शक्नुवन्तीति । हस्तानुज्ञातस्योपरि वासा निक्षिप्यन्ते एष गणधर इति पश्चात्कालगता आचार्या इति प्रकाश्यन्ते । इति श्रीव्यवहारचतुर्थोद्देशके ।। ८० ।।
अथ मृतयुगलिकशरीराणां का गतिः ? इति शङ्कानिरासो लिख्यते
अत्र कश्चिदाह- अग्नेरप्रादुर्भूतत्वेन मृतकशरीराणां का गतिः ? उच्यते-भारण्डप्रभृतिपक्षिणस्तानि तथा जगत्स्वाभाव्यान्नीडकाष्ठमिवोत्पाट्य मध्ये समुद्रं क्षिपन्तीति । यदुक्तं श्रीहेमाचार्यकृतऋषभचरित्रे - पुरा हि मृतमिथुनशरीराणि महाखगाः । नीडकाष्ठमिवोत्पाट्य, सद्यश्चिक्षिपुरंबुधौ ॥ १ ॥ किं चात्र श्लोकेंऽबुधावित्युपलक्षणं, तेन यथायोगं गङ्गाप्रभृतिनदीष्वपि ते तानि क्षिपन्ति । इति जंबूद्वीपप्रज्ञप्तीवृत्तौ श्रीशान्तिचन्द्रगणिकृतायाम्
॥ ८१ ॥
भो ! भो ! अपारंपर्यं “ पिप्पलिं वा पिप्पलिचुन्नं वा मिरियं वा मिरियचुन्नं वा ” इत्यादिनिषेधाक्षरसद्भावेऽपि कथं मरीचिपिष्पल्यादिकं त्वया भुज्यते, भवतामप्येतत्तुल्यमिति चेन्नैवम् । अस्माकं तु अवस्थान्तरसूचकापराक्षरसद्भावात् । तव त्वनन्यगतिकस्यानाचीर्णाच शरणम् । अस्मदक्षराणि चेमानि जलमग्गे सयजोअण, थलमग्गे सट्ठिजोयणा उवरिं । हरडिं पिप्पलि मरियं समये भणियं अचित्ताणि ॥ १ ॥ तथाऽन्यत्र क्षेत्रे योजनशतात्परतो यदा नीयते तदा सर्वोऽपि पृथिवीकायः सर्वस्मादपि क्षेत्रात् योजनशतादूर्ध्वं भिन्नाहारत्वेन
88888888888888888888888888888888888888888888888%
1120311

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298