Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
विचार-
रत्नाकर
||२७१
लोकोत्तरदेवगतं-परतीर्थिकसङ्ग्रहीतजिनबिम्बार्चनादिसप्रत्ययश्रीशान्तिनाथपार्श्वनाधादिप्रतिमाणामिह लोकार्थं यात्रोपचितमाननादि च, लोकोत्तरगुरुगतं च-लोकोत्तरलिङ्गेषु पार्श्वस्थादिषु गुरुत्वबुद्ध्या वन्दनादि । गुरुस्तूपादावैहिकफलार्थं यात्रोपयाचितादि च । ननु यथा 0 वैद्यादयो व्याधिप्रतीकाराद्यर्थं धनभोजनवसनादिना बहु मन्यन्ते तथा सप्रभावयक्षयक्षिण्यादीनाप्यैहलौकिकफलार्थं पूजोपयाचितादौ को दोषः । मिथ्यात्वं हि तदा स्याद्यदि मोक्षप्रदोऽयमिति बुद्ध्याऽऽराध्येत । यदाहु:-" अदेवे देवबुद्धिर्या, गुरुधीरगुरौ च या । अधर्मे धर्मबुद्धिच, मिथ्यात्वं तद्विपर्ययात् ॥१॥" श्रूयते च-विशुद्धदृढसम्यक्त्वा रावणकुष्णश्रेणिकाभयकुमारादयोऽपि शत्रुञ्जयपुत्रप्राप्त्याबैहिककार्यार्थ विद्यादेवताधाराधनं कृतवन्त इति । ततश्चेह लोकार्थं यक्षाद्याराधनेऽपि किं नाम मिथ्यात्वम् ? सत्यम् । तत्त्ववृत्त्याऽदेवस्य देवत्वबुद्ध्याऽऽराधनं एव मिथ्यात्वं तथाऽपि यक्षाद्याराधनमिह लोकार्थमपि श्रावकेण वर्जनीयमेव, प्रसङ्गाद्यनेकदोषसम्भवात् । प्रायो हि जीवा मन्दमुग्धवक्रबुद्धयः । सम्प्रति च विशिष्य ते ह्येवं विमृशन्ति । यद्यनेन विशुद्धसम्यक्त्वेन महात्मना यक्षाद्याराधनं विधीयते तदा नूनमयमपि देवो मोक्षप्रदतया सम्यगाराध्य इत्यादिपरम्परया मिथ्यात्ववृद्धिस्थिरीकरणादिप्रसङ्गः । तथा चैहिकफलार्थमपि यक्षाद्याराधकस्यापि | प्रेत्य बोधि१ःप्रापः स्यात् । उक्तं च-“ अन्नेसिं सत्ताणं मिच्छत्तं जो जणेइ मूढप्पा । सो तेण निमित्तेणं, न लहइ बोहिं जिणाभिहियं ॥
रावणकृष्णादिभिश्च तत्समयेऽर्हद्धर्मस्येतरधर्मेभ्योऽतिशायितया सर्वप्रतीतत्वेनापवादपदे यदि विद्याराधनादिकृतं तदाऽपि तदालम्बनग्रहणं नोचितम् । यत:-" जाणिज्ज मिच्छदिट्ठी, जे य परालंबणाइ घिप्पंति । जे य पुण सम्मदिट्ठी, तेसि पुणो चडइ पयडीए ॥१॥" इति श्रीश्राद्धप्रतिक्रमणसूत्रवृत्तौ 'संकाकंखविगिच्छा' इति गाथायाम् २३ पत्रे ।। ७६ ॥
अत्र ये स्तूपं प्रतिसन्दिह्यन्ते तेषामपि लौकिकगुरुमिथ्यात्वाक्षरैर्निरासः स्पष्ट एव
सुण पंचविहं मिच्छतं थूलभावेणं परमत्थाउ विवज्जासो, सो पुण एवं न मए मम पुव्वपुरिसेहिं वा कारियं जिणाययणं बिंबं वा, leel कारियं मम पुरिसेहिं वा, ता इत्थ पूयाइयं पवत्तेमि, किं परकीएसु अच्चायरेणं, एवं च न तस्य सव्वण्णुपच्चया पवित्ती, अन्नहा सव्वेसु बिबेसु अरिहं चेव ववसिज्जा सो अरहा जह परकीओ ता पत्थरलेप्पपित्तलाइयं अप्पणिज्जयं, न पुण पत्थराइसु वंदिज्जमाणेसु | ||२७१।। कम्मक्खओ किं तु तित्थयरगुणपक्खवाएणं, अण्णहा संकराइबिंबे पहाणाइं सब्भावओ तेसु वंदिज्जमाणेसु कम्मखओ हुज्जा, मच्छरेण

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298