Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 283
________________ विचार- 'वंदणवत्तियाए ' इत्यादि तु साधुरपि पठति, साधोस्तु द्रव्यार्चनं भवतामप्यनभिमतं ततः कथमयमर्थः समर्थः साधुयितुं भवत्समीहितम् । | प्रतिमापूजारत्नाकरः मैवं क्षीरकंठ ! त्वदुत्पत्तेः पूर्वमेव पूर्वाचार्यैरियं शङ्का समुदृदय निराकृताऽस्तीति सकर्णो भूत्वा शृणु तथा ' पूअणवत्तियाए' त्ति @ विचारः पूजनप्रत्ययं-पूजानिमित्तं पूजन-गन्धमाल्यादिभिः समभ्यर्चनं, तथा 'सक्कारवत्तियाए' त्ति सत्कारप्रत्ययं-सत्कारनिमित्तं प्रवरवस्त्रादिभिः समभ्यर्चनं सत्कारः । आह-क एवमाह साधुः श्रावको वा । तत्र साधोस्तावत्पूजनसत्कारावनुचितावेव, द्रव्यस्तवत्वात्, तस्त तत्प्रतिषेधात् 'तो कसिणसंजमविऊ पुप्फाईयं न इच्छंति' इति वचनात्, श्रावकस्तु सम्पादयत्येवैतौ, यथाविभवं तस्य तत्प्रधानत्वात्, तत्र तत्र दर्शित||२७018 त्वात्, 'जिणपूया विभववुड्डि' त्ति वचनात् । तत्कोऽनयोर्विषयः ? इति । उच्यते-सामान्येन द्वावपि साधुश्रावको, साधौः स्वकरणमधिकृत्य द्रव्यस्तवप्रतिषेधः, न पुनः सामान्येन, तदनुमतिभावात् । भवति च भगवतां पूजासत्कारावुपलभ्य साधोः प्रमोदः । साधु-शोभनमिदमेतावज्जन्मफलमविरतानामिति वचनलिङ्गगम्यः । तदनुमतिरियं, उपदेशदानतः, कारणापत्तेच, ददाति च भगवतां पूजासत्कारविषयमुपदेशम् कर्त्तव्या जिनपूजा, न खलु वित्तस्यान्यच्छुभतरं स्थानमिति वचनसन्दर्भेण तत्कारणम्, एतदनवद्यं च । तद्दोषान्तरनिवृत्तिद्वारेणायमत्र प्रयोजकोंऽशः । तथा भावतः प्रवृत्तेरुपायान्तराभावात् । नागदत्तसुतगर्त्ताकर्षणज्ञातेन भावनीयमेतत् । तदेवं साधुरित्थमेवैतत्सम्पादनाय कुर्वाणो नाविषयः । वचनप्रामाण्यादित्यमेवेष्टसिद्धिः, अन्यथाऽयोगादिति । श्रावकस्तु सम्पादयन्नप्येतौ भावातिशयादधिकसम्पादनार्थमाह न तस्यैतयोः सन्तोषः, तद्धर्मस्य तथा स्वभावत्वात्, जिनपूजासत्कारयोः करणलालसः खल्वाद्यो देशविरतिपरिणामः, औचित्यप्रवृतिसारत्वेनोas चितारम्भिण एतौ सदारम्भरूपत्वात्, औचित्याज्ञाऽमृतयोगादसदारम्भनिवृत्तेः, अन्यथा तदयोगादतिप्रसङ्गादिति । तथा हि-द्रव्यस्तव एवैतो, स च भावस्तवाङ्गमिष्टः, तदन्यस्याप्रधानत्वात्, तस्याभव्येष्वपि भावात् । अत आज्ञयाऽसदारम्भनिवृत्तिरूप एवायं स्यात् । औचित्यप्रवृत्तिरूपेऽप्यल्पभावत्वात् द्रव्यस्तवः गुणाय चायं, कूपोदाहरणेन । न चैतदप्यनीदृशं इष्टफलसिद्धये । किं तु आज्ञामृतयुक्तमेव । स्थाने विधिप्रवृत्तेरिति सम्यगालोचनीयमेतत् । तदेवमेतयोः साधुश्रावकावेव विषय इत्यलं प्रसङ्गेन । इति श्रीहरिभद्रसूरिकृतायां ललितविस्तरायाम् ।। ७५ ॥ तथा जिनपूजा यदि मोक्षसाधनं तर्हि साधुभिः कुतो न क्रियत इत्यादि ये प्रलपन्ति तेषामपीदमेव मुखमुद्रणमिति । अथ ||२७०॥ लोकोत्तरमिथ्यात्वस्वरूपं लिख्यते

Loading...

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298