Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
विचार- रत्नाकरः।
॥२६८॥
स्त्वयम्, अथ भोगोपभोगगुणव्रतेऽभक्षनियमविषयं प्रायश्चित्तमाह-" महुपंचुंबरिफलपुष्फमाइवयभंगि गुरुग अन्नाए । नाए छग्गुरुनिअमे, | सम्यकत्त्वपिसियासवमक्खणे दसगं ॥” व्याख्या-मधुप्रतीतं पञ्चोदुंबरी उदुंबर १ वट २ प्लक्ष ३ काकोदंबरि ४ शाखिनां पिष्पलस्य च नाश्नीयात्
स्थिति
विचारः फलं कृमिकुलाकुलमित्याधुक्तरूपं, फलम्-वृन्ताकादि, पूष्पम्-मधूकादि, आदिशब्दात्पर्युषितद्विदलहिमविषादिपरिग्रहः । एतेषां व्रतस्य नियमस्य भङ्गे 'अन्नाए' ति अज्ञातेऽनाभोगत इत्यर्थः अज्ञाते सति 'गुरुग' गुरुका:-चतुर्गुरवः प्रायश्चित्तं भवतीति । 'नाए छग्गुरुग' त्ति ज्ञाते आभोगे सति मधुप्रभृतीनां नियमभड़े षट्गुरुप्रायश्चित्तं भवति । अन्ये तु सामान्येन पञ्चोदुम्बरीफलपुष्पादिवतभङ्गे लघु नमस्काराष्टशतं त्वेके । अपरे तु नियम विनाऽपि पञ्चोदुम्बर्यादिषु निषिद्धेषु भक्षितेषु चतुर्गुरु, नियमभङ्गे तु षट्गुरुकमाहुः । अनियमे इत्यादि यस्य ब्राह्मणवणिजादेर्जातिस्वभावादेव पिशितादीनि न भक्ष्यन्ते, तस्य निर्विषयत्वात् । कदाचिदकृतनियमस्यापि पिशितासवप्रक्षणानाम् । तत्र पिशित-मांस, आसवो-मद्यं, प्रक्षणं-नवनीतं, एतेषां भक्षणे दशकं क्षपणानामिति गाथार्थः ॥ ८९ ॥ अथ भोगोपभोग-गुणव्रत एवानन्तकायप्रत्येकवनस्पतिनियमविषयं किञ्चिन्मांसासवविषयं विशेषप्रायश्चितं चाह-चउगुरुणंते चउलहु, परित्तभोगे सचित्तवज्जि-स्स । मंसासववयभंगे, छग्गुरु चउगुरु अणाभोगे ॥ व्याख्या-सचित्तवर्जकस्य-श्रावकादेः 'अनंते' त्ति अनन्तकायानां मूलकाद्रकादीनां भक्षणे चतुर्गुरु प्रायश्चित्तं भवति ॥ यदागम:-“साऊ जिणपडिकुट्ठो, अणंतजीवाणगायनिप्फन्नो । गेही पसंगदोसा, अणंतकाए अओ गुरुगा ॥१॥" तथा सचित्तवर्जकस्यैव श्राद्धादेः 'परित्त' प्रत्येकपरिभोगे प्रत्येकानादिपुष्पफलादिभोगे चतुर्लघुप्रायश्चित्तं भवति । तथा मांसासवयोरुपलक्षणत्वान्मधुनवनीतयोश्च ‘वयभंगे' त्ति अनाभोगतः पृथग्वक्ष्यमाणत्वादत्राभोगतो ज्ञेयम्, ततश्चाभोगे सति व्रतस्य नियमस्य भङ्गे षट्गुरु ' चउगुरु' त्ति अनाभोगे मांसासवमधुनवनीतानां व्रतभङ्गे चतुर्गुरु प्रायश्चित्तं भवतीति गाथाक्षरार्थः ॥ ९० ॥ इति श्रीश्राद्धजीतसूत्रवृत्तौ ३० पत्रे ।। ७२ ॥
केचिद्रात्रौ अन्धकारयोनिकास्तद्रूपाः सर्वत्र जलादौ जीवा उत्पद्यन्ते दिवा विलीयन्त इत्यादि वदन्ति परं तदनवबोधसूचकम् । एवं सति दीपप्रभास्पर्शे तज्जीवानामिवान्थ्कारयोनिकजीवविराधनापत्त्या प्रतिक्रमणाद्यभाव एव सम्पनीपद्यते । प्रकाशान्धकारयोरुभयोरपि २६८॥ बाधित-त्वात् । अन्धकारस्य पुद्गलमयत्वं चागमप्रसिद्धमेव- तहा तज्जोमियाण य' इत्यत्र तु भ्रान्तिन विधेया । तद्योनिका:-तद्वस्तुयोनिकाः

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298