Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 279
________________ विचारत्नाकरः ||२६६ ॥ 88888 မိမိခြံ၊ प्रवचनार्थव्याख्याधिकारिणः सद्धर्मदेशनादिगुणग्रामभूरयः सूरयः । आचार्यग्रहणमुपलक्षणं, तेनोपाध्यायादीनां प्रभूणां परिग्रहस्तेषाम् । तथा ग्लाना:- मन्दास्तेषाम् च पुनः पुनर्मलिनानि वस्त्राणि प्रक्षालयेत् । प्राकृतत्वाच्च मलिनानीत्यत्र पुंस्त्वनिर्देश: प्रस्तुतेऽर्थे कारणमाहमा हु' इत्यादि मा भवतु, हु निश्चितम्, गुरूणां मलिनवस्त्रपरिधाने लोकेऽवर्णो ऽश्लाघा । यथा निराकृतयोऽमी मलदुरभिगन्धोपलिप्तदेहास्ततः किमेतेषामुपकंठगतैरस्माभिरिति, तथा इतरस्मिन् ग्लाने मा भवत्वजीर्णमिति । मलक्लिन्नवस्त्रधारणे हि शीतलमारुतादिसम्पर्कतः शैत्यसम्भवेन भुक्ताऽऽहारस्यापरिणतौ ग्लानस्य विशेषतो मान्द्यमुज्जृम्भते । इति श्रीप्रवचनसारोद्धारे एकत्रिंशदुत्तरशततमद्वारे ॥ ६७ ॥ यः प्रतिदिनं द्व्यासनं करोति तस्य मासेनाष्टाविंशत्युपवासपुण्यं भवति यथा रात्रिचतुर्विधाहारपरिहारस्थानोपवेशनपूर्वकताम्बूलादिव्या पारणमुखशुद्धिकरणादिविधिना ग्रन्थिसहितप्रत्याख्यानपालने एकवारभोजिनः प्रतिमासमेकोनत्रिंशत्, द्विवारभोजिनस्त्वष्टाविंशतिर्निर्जला उपवासाः स्युरिति वृद्धाः । भोजनताम्बूलजलव्यापारणादौ प्रत्यहं घटीद्वयघटीद्वयसम्भवे मासे एकोनत्रिंशत्, घटीचतुष्टयसम्भवे त्वाष्टाविंशतिरुपवासाः । यदुक्तं पद्मचरित्रे :- " भुंजइ अणंतरेणं, दुन्नि य वेला उ जो निओगेणं । सो पावइ उववासा, अट्ठावीसं तु मासेणं ॥ १ ॥” इति श्राद्धविधौ प्रथमाधिकारे ॥ ६८ ॥ अथ नखरदनीछुरीरक्षणाक्षराणि लिख्यन्ते असणाईया चउरो ४, वत्थं ५ पायं ६ च कंबलं ७ चेव । पाउंछणगं ८ च तहा अट्ठविहो रायपिंडो सो ॥ १ ॥ असणाईया चउरो ४, पाउंछण ५ वत्थ ६ पत्त ७ कंबलयं ८ । सूई ९ १० कन्नसोहणी ११, नहरणिया १२ सागारिपिंडो सो ॥ २ ॥ इति श्रीबृहत्कल्पभाष्ये ॥ ६९ ॥ 35 इदानीं साधुः स्थंडिलादस्थंडिलं सङ्क्रामन् कस्मिन् काले केन प्रमार्जनं करोतीति लिख्यते उडुबद्धे रयहरणं, वासावासासु पायलेहणिआ । वडउंबरे पिलक्खू, तस्स अलंभंमि चिंचिणिया ॥ ६० ॥ ऋतुबद्धे शीतोष्णकाले 'स्यहरणं ' ति रजोहरणेन प्रमार्जनं कृत्वा प्रयाति ' वासासु पायलेहणिय ' ति वर्षासु वर्षाकाले वर्षति सति पादलेखनीकया प्रमार्जनं कर्त्तव्यम्, सा च किंमयी भवति ? इत्यत आह-' बडे ' त्ति वटमयी उदुंबरमयी प्लक्षमयी, तस्यालाभे-प्लक्षाप्राप्तौ चिञ्चिणिकामयी သာ မိဘခြိ चिकित्साविचार: 1128811

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298