Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 278
________________ 1128411 सम्प्रति — गुरुपमुहाणं कीरइ असुद्धसुद्धेहिं जत्तियं कालं ' इति त्रिंशदुत्तरशततमं द्वारमाह -" जावज्जीवं गुरुणो, असुद्धसुद्धेहिं वावि कायव्वं । वसहे बारसवासा, अट्ठारस भिक्खुणो मासा ।। ६६ ।। " यावज्जीवमाजन्माऽपीत्यर्थः । गुरोराचार्यस्य शुद्धैराधाकर्मादिदोषादूषितैरशुद्धैर्वाऽपि आधाकर्मादिदोषयुक्तैर्वाऽपि अशनपानभेषाजादिभिः कर्त्तव्यं प्रतिजागरणमिति शेषः । अयमर्थः शुद्धैरशुद्धैश्च तैर्यावज्जीवं ते प्रतिजागरणीयाः साधुश्रावकलोकेनेति । सर्वस्यापि गच्छस्य तदधीनत्वाद्यथाशक्ति निरन्तरसूत्रार्थनिर्णयप्रवृतेश्च तथा वृषभे - उपाध्यायादिके ॐ द्वादशवर्षाणि यावत्प्रतिजागरणा शुद्धैरशुद्धैश्च वस्तुभिर्विधेया । ततः परं शक्तौ भक्तविवेकः । एतावता कालेनान्यस्यापि गच्छभारोद्वहनसमर्थस्य वृषभस्योत्थानात् । तथाऽष्टादशमासान् यावत्सामान्यभिक्षोः - सामान्यसाधोः शुद्धैरशुद्धैश्च प्रतिजागरणा विधेया । ततः परमसाध्य शक्तौ सत्यां भक्तविवेकस्यैव कर्त्तुमुचितत्वात् इदं शुद्धाशुद्धादिभिराचार्यादीनां परिपालनं रोगाद्यभिभूतवपुषां क्षेत्रकालादिपरिहाणिवशतो भक्ताद्यलाभवतां च विधेया, न पुनरेवमेव सुस्थावस्थायामिति । व्यवहारभाष्ये तु सर्वसामान्यग्लानप्रतिक्रिया व्यवस्थार्थमियं गाथा - लिखिताऽस्ति । यथा-छम्मासे आयरिओ, कुलं च संवत्सराइ तिन्नि भवे । संवत्सरं गणो खलु, जावज्जीवं भवे संघो ॥ १ ॥ व्याख्या-प्रथमत आचार्य: षण्मासान् यावच्चिकित्सां ग्लानस्य कारयति, तथाऽप्यप्रगुणीभूतं कुलस्य समर्पयति । ततः कुलं त्रीन वत्सरान् यावच्चिकित्सकं भवति, तथाऽप्यप्रगुणीभवने कुलं गणस्य तं समर्पयति यावद्गणः खलु चिकित्सां कारयति, तथाऽप्यनिवर्त्तिते रोगे तं गणः सङ्घस्य समर्पयति । ततः सङ्घो यावज्जीवं प्रासुकप्रत्यवतारेण तदभावे चाऽप्रासुकेनापि यावज्जीवं चिकित्सको भवति । एतच्चोक्तं भक्तविवेकं कर्त्तुमशक्नुवतः । यः पुनर्भक्तविवेकं कर्तुं शक्नोति तेन प्रथमतोऽष्टादशमासान् चिकित्सा कारयितव्या । विरतिसहितस्य पुनः संसारे दुःप्रापत्वात् । तदनन्तरं चेत्प्रगुणीभवति ततः सुन्दरम् । अथ न भवति तर्हि भक्तविवेकः कर्त्तव्यः इति श्रीप्रवचनसारोद्धार ।। १६६ पत्रे ॥ ६६ ॥ विचार- 88 रत्नाकरः। 828 अथ तथाविधगीतार्थानां ग्लानादीनां पुन: पुनर्वस्त्रक्षालनमप्यनुज्ञातमेवेत्यक्षराणि लिख्यन्ते आयरियगिलाणाणं, मलिणामलिणा पुणोवि धोविज्जा । मा हु गुरुण अवन्नो, लोगंमि अजीरणं इयरे ॥ ६८ ॥ वृत्तिर्यथा-आहसर्वेषामपि वस्त्राणि वर्षाकालादर्वागेव प्रक्षाल्यन्ते, किं वाऽस्ति केषाञ्चिद्विशेषः ? अस्तीति ब्रूमः । केषाम् ? इति भेदत आह- आचार्या: ဒီဘာသာာာာာာာာနှင် 84 1128411

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298