Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 287
________________ विचार- 8| शीतादिसंपर्कतश्चावश्यमचित्तीभवति । इत्थं च क्षेत्रातिक्रमणेनाचित्तीभवनमप्कायादीनामपि यावद्वनस्पतिकायः । तथा च हरीतक्याद्यपि se] इन्द्रियाणांरत्नाकरः। IAS अचित्तीभूतत्वादौषधाद्यर्थं साधुभिर्गृह्यते । इत्याचाराङ्गप्रथमाध्ययनतृतीयोद्देशके ।। ८२ ॥ भावश्नुतं संज्ञा च हरियाल मणोसिल पिप्पली अ, खज्जूर मुद्दिया अभया । आइण्णमणाइण्णा, तेवि हु एमेव नायव्वा ॥ १॥ हरितालं मनःशिला पिष्पली खर्जूरः, एते प्रतीताः मुद्रिका-द्राक्षा, अभ्या-हरीतकी, एतेऽपि एवमेव लवणवत् । योजनशतागमनादिभिः कारणैरचित्तीभावं भजन्तो ज्ञातव्याः, परमेके आचीर्णा अपरेऽनाचीर्णाः, तत्रापि पिष्पलीहरीतकीप्रभृतय आचीर्णा इति कृत्वा गृह्यन्ते । खजूरमुद्रिकादयः ||२७४। पुनरनाचीर्णा इति न गृह्यन्ते । इति श्रीबृहत्कल्पवृत्तौ प्रथमखंडे ।। ८३ ॥ अथैकेन्द्रियाणामपि कथञ्चिद्भावश्रुतं काश्चित्संज्ञाश्च वर्तन्ते, इत्यक्षराणि लिख्यन्ते “जह सुहुम भाविदिय-नाणं दविदियावरोहेवि । तह दव्वसुयाभावे भावसुअं पत्थिवाईणं ॥१॥" वृत्तिर्यथा-इह केवलिनो विहाय शेषसंसारिजीवानां सर्वेषामप्यतिस्तोकबहुबहुतरबहुतमादितारतम्यभावेन द्रव्येन्दियेष्वसत्स्वपि लब्धीन्द्रियपञ्चकावरणक्षयोपशमः समस्त्येव, ततश्च यथा पृथिव्यादीनामेकेन्द्रियाणां श्रोत्रचक्षुर्घाणरसनस्पर्शनलक्षणानां प्रत्येकं निर्वृत्त्युपकरणरूपाणां द्रव्येन्द्रियाणां तत्प्रतिबन्धककर्मावृतत्वादवरोधेऽप्यभावेऽपि सुक्ष्ममव्यक्तं लब्ध्युपयोगरूपश्रोत्रादिभावेन्द्रियज्ञानं भवति । लब्धीन्द्रियावरणक्षयोपशमोद्भूताणीयसी ज्ञानशक्तिर्भवतीत्यर्थः । तथा तेनैव प्रकारेण द्रव्यश्रुतस्य द्रव्येन्द्रियस्थानीयस्याभावेऽपि भावशूतं भावेन्द्रियज्ञानकलं पृथिव्यादीनां भवतीति प्रतिपत्तव्यमेव । इदमुक्तं भवति-एकेन्द्रियाणां तावच्छ्रोत्रादिद्रव्येन्द्रियाभावेऽपि भावेन्द्रियज्ञानं किञ्चिद् दृश्यते एव वनस्पत्यादिषु स्पष्टं तलिङ्गोपलम्भात् । तथा हि-कलकंठोद्गीर्णमधुरपञ्चमोद्गारश्रवणात्सद्यः कुसुमपल्लवादिसम्भवो विरहकवृक्षादिषु श्रवणस्येन्द्रियस्य व्यक्तमेव लिङ्गमवलोक्यते । तिलकादिषु तरुषु पुनः कमनीयकामिनीकमलदलदीर्घशरदिन्दुधवललोचनकटाक्षविक्षेपात्कुसुमाद्याविर्भावचक्षुरिन्द्रियज्ञानस्य । चंपकाद्यंघ्रियेषु तु विविधसुगन्धिगन्धवस्तुनिकुरम्बोन्मिश्रविमलशीतलसलिलसेकात्प्रकटनं घ्राणेन्द्रियज्ञानस्य । बकुलादिभूरुहेषु तु रम्भातिशायिस्पर्शप्रवरतररूपवरतरुणभामिनीमुखप्रदत्तस्वच्छसुस्वादुसुरभिवारुणीगंडूषास्वादनात्तदाविःकरणं रसनेन्द्रियज्ञानस्य कुरुबकादिविटपिषु अशोकादिद्रुमेषु च घनपीनोन्नतकठिनकुचकुम्भविभ्रमापभ्राजितकुम्भीनकुम्भरणन्मणिवलयक्वणत्कङ्कणाभरणभूषितभव्यभामिनीभूजलताव ||२७४||

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298