Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 296
________________ विचार रत्नाकरः ||२८३| एतेषामादेशात्समुच्चितः प्रवचनादयं ग्रन्थः । श्रीहीरविजयगणपतिशिशुपाठककीर्त्तिविजयेन ।। २८ ।। संशोधितश्च सुविहितचूडामणिरामविजयबुधशिष्यैः । श्रीदेवविजयवाचकवृषभैः कोविदकुलोत्तंसैः ।। २९ ।। किं चात्र लेखनशोधनविषये यलं चकार मच्छिष्यः । विनयविजयाभिधानः, प्रथमादर्श च स लिलेख ।। ३० ।। यद्यपि मया तु किञ्चिन्न लिखितमत्रास्ति नूतनं तदपि । कृतिभिः शोध्यं धर्मप्रणयादविचारितं यदिह ।। ३१ ।। इयदागमोक्तयुक्तिप्रचयाद्युदुपार्जितं मया सुकृतम् । तेन ममास्तु विशिष्टा, निरन्तरं बोधिबीजाप्ति: ।। ३२ ।। अस्मिल्लक्षविपक्षपक्षतिमिकग्रासाग्रहप्रस्फुरत्-सत्पक्षौघतिमिङ्गले कलजयश्रीमन्दिरे सुन्दरे । उद्यद्भूरिविचारचारुलहरीप्रव्यक्तयुक्त्यावली - मुक्ता : स्वच्छजले चिरं मणिगणैः क्रीडन्तु ते धीवराः ।। ३३ ।। यावद्दिव्यवधूविलासरसिक: स्वर्भोगभङ्गीसुखं, जंभारातिरसौ भुनक्ति भगवानुद्भूतभाग्याद्भुतः तावत्सर्गनिरर्गलान्तरतमः स्तोमप्रणाशक्षमं, शस्तं शास्त्रमिदं निरस्तदुरितं पृथ्वीतले नन्दतात् ।। ३४ । यावद्व्योमतरङ्गिणीजलमिलत्कल्लोलमालालस- द्दिग्दन्ताबलकीर्णवर्ण्यसलिला सेकप्रणष्टश्रमम् । ज्योतिश्चक्रमनुक्रमेण नभसि भ्रामत्यजस्त्रं क्षितौ, तावन्नन्दतु शास्त्रमेतदनघं विद्वज्जनानन्दनम् ।। ३५ ।। दर्शनहिमकरगगनग्रैवेयकसङ्ख्यवत्सरे " जात : आश्विनसिति तुर्यायां, यत्नः सफलो गुरुमहिम्ना ।। ३६ ।। ।। इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारक श्रीहीरविजयसूरीशिष्योपाध्यायश्रीश्रीकीर्त्तिविजयगणिसमु च्चिते श्रीविचाररत्नाकरे संङ्कीर्णविचारसमुच्चयनाम्नीवेला समाप्ता ।। ।। इति श्रीविचाररत्नाकरः समाप्तः ।। သာမြို့ဦးရှိ ||२८३ ।।

Loading...

Page Navigation
1 ... 294 295 296 297 298