Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
विचार- अम्बिलिकामयीति । सा च कियत्प्रमाणा भवति ? इत्याह-बारसअंगुलदीहा, अंगुलमेगं तु होइ विछिन्ना । घणमसिणणिव्वणाविय,
परिसे परिसे य पत्तेयं ॥ ६१॥ द्वादशाङ्गलानि दीर्घा भवति, येन मध्ये हस्तग्रहे भवति, विस्तारस्त्वेकमङ्गलं स्यात् । सा च घना-निविडा कार्या, मसृणा निर्वणा च निर्ग्रथिर्भवति । सा च किमेकैव भवति ? न इत्याह-पुरुषे पुरुषे च प्रत्येक एकैकस्य पृथगसौ भवति । इति श्रीओघनियुक्तिवृत्तौ ३१ पत्रे ॥ ७० ॥
केचिदज्ञानिनो विद्धं मुक्ताफलमचित्तमविद्धं तु सचित्तमिति वदन्ति परं तदनागमिकम्, आगमे हि विशेषानभिधानेन 112801
मौक्तिकानामचित्तेषूक्तत्वात् । तथा हि
से किं तं अचित्ते अचित्ते सुवण्णरययमणिमोत्तिअसंखसिलप्पवालरयणाणं आये सेत्तं अचित्ते" इति श्रीअनुयोगद्वारसूत्रे ५१ पत्रे | ॥७१॥
अथ कश्चित् पंडितमन्यो ब्रूते-यो मांसमश्नाति तस्य सम्यक्त्वं न भवत्येवेति, परं तदसङ्गत्तमेव प्रतिभासते, यतः केवलसम्यक्त्वधारिणो विरतेरभावात् । वृन्ताकाद्यभक्षमिव पिशितमपि नियमितं नास्ति, यदि नाश्नाति तदा तु भव्यमेव । अथ यदि कर्मगतेर्वैचित्र्येण रसनास्वादरसस्य
दुरपोहत्वेन भुङ्क्ते तर्हि श्रद्धानरूपे सम्यक्त्वे का नाम क्षतिः । अथ तादृग् सद्यः संमूर्छिमानन्तजन्तुसन्तानदूषितं तद् ज्ञात्वाऽपि भुजानस्य fol कथं दयापरिणाम: ? तदभावाच्च किं सम्यक्त्वं ? इति चेन्मैवम्, अनन्तजन्तुमयं ज्ञात्वाऽपि मूलकभक्षणं कुर्वतोऽपि सम्य-क्त्वक्षतिप्रसक्तेः,
न्यायस्योभयत्रापि तुल्यत्वात् । अथ तल्लोकेऽतिनिन्द्यमिति यदि तत्प्रवृत्तिमत्कुले तस्य निन्द्यत्वाभावात्, मूलकादेरिव । तथैव च ज्ञातायां द्रुपदनृपतिगृहे क्षायिकसम्यक्त्वधारी केशवोऽपि अशनपानखादिमस्वादिमयावत्पिशितमद्यादिभुञ्जानः सुखेन व्यहरदिति श्रूयते । अपरं च यद्यनन्तकायादिमांसादिभक्षणे सम्यक्त्वध्वंस एव दृष्टः स्यात्तर्हि तद्भक्षणस्य प्रायश्चित्तं नोक्तं स्यात् । श्रावक एव प्रायश्चित्ताधिकारी, न तु मिथ्यात्वी । अत्र श्राद्धजीते तु ज्ञात्वाऽपि मांसभक्षणे माध्वीकादिभक्षणे इव प्रायश्चित्तमेवोक्तं, न तु सम्यक्त्वध्वंसोऽश्रावकत्वं वा । सम्यक्त्वाभावे तु प्रायश्चित्तानधिकार एव पुनः सम्यक्त्वोच्चारो वेत्यपि बोध्यम् । तथा पिशितादिविरतिस्तु चारित्रावरणक्षयोपशमोद्भवा। सम्यक्त्वं तु मोहनीयक्षयक्षयोपशमोद्भवमिति, नानयोरपि कश्चित्सहावस्थाननियमोऽस्तीत्याद्यत्र बहु वाच्यं अलं प्रसङ्गेनेति । तत्प्रायश्चित्ताधिकार
२६७।।

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298