Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 267
________________ विचार- विचाराः श्राद्धविधौ दिनकृत्याधिकारे ॥ ३४ ॥ एतेषामादौ अभिप्रायास्तु स्पष्टतमत्वादेव नोल्लेखिता इति । रत्नाकरः । अथ केचित् सुविहितपरंपरावन्तोऽपि गृहस्थाः सदारम्भमप्यारम्भमिव गणयन्ति परं तेऽनवबुद्धा ज्ञेयाः, यतोऽसदारम्भवतः सदारम्भस्य सुतमां विहितत्वात् । अयमेवाभिप्रायो लिख्यते ॥२५४॥ हेतुत्वात्तस्य राजादेस्तु विधापयितुः प्रचुरतरभाण्डागारनगरमण्डलगोकुलादिप्रदानं जिनभवनक्षेत्रे वपनम् । तथा जीर्णशीर्णानां चैत्यानां समारचनं, नष्टभ्रष्टानां समुद्धरणं चेति । ननु निरवद्यजिनधर्मसमाचरणचतुराणां जिनभवनबिम्बपूजादिकरणमनुचितमिव प्रतिभासते, षट्जीवनिकायविराधनाभूमिखननदलपाटकानयनगर्त्तापूरणेष्टकाचयनजलप्लावनवनस्पतित्रसकायविराधनामन्तरेण न हि तद्भवति । उच्यते-य आरम्भपरिग्रहप्रसक्तः कुटुम्ब परिपालननिमित्तं धनोपार्जनं करोति, तस्य धनोपार्जनं विफलं माभूदिति जिनभवनादौ धनव्ययः श्रेयानेव, न ॐ च धर्मार्थं धनोपार्जनं युक्तम् । यतः " धर्मार्थं यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् " ॥ इत्युक्तमेव, न च वापीकूपतडागादिखननवदशुभोदर्कं जिनभवनादिकरणम् । अपि तु सङ्घसमागमधर्मदेशनाकरणव्रतप्रतिपत्त्यादिकरणेन शुभोदर्कमेव । षट्जीवनिकायविराधना च यतनाकारिणामगारिणां कृपापरवशत्वेन सूक्ष्मानपि जन्तून् रक्षयतामविराधनैव । यदाहु:-“ जा जयमाणस्स भवे, विराहणा सुत्तविहसमग्गस्स । सा होइ निज्जरफला, अज्झत्थविसोहिजुत्तस्स ॥ १ ॥ परमरहस्समिसीणं, समग्गगणिपिडगधरियसाराणं । परिणामिअं पमाणं, निच्छयमवलंबमाणाणं ।। २ ।। ” यस्तु निजकुटुम्बार्थमपि नारम्भं करोति प्रतिमा- 888 प्रतिपन्नादिस्तस्य माभूज्जिनबिम्बादिविधानमपि । यदाह - " देहाइनिमित्तंपि हु, जे कायवहंमि इह पयट्टंति । जिणपूआ कायवहंमि, ॐ तेसिमपवत्तणं मोहो ” । इत्यलं प्रसङ्गेन । इति श्रीयोगशास्त्रतृतीयप्रकाशकवृत्तौ ॥ ३५ ॥ 888888888888888888 निर्माल्यविचाराः अथ केचिदनिषेवितसुविहितगीतार्थचरणाः, अनवगतपरम्परागतागमतत्त्वाः प्रलपन्ति अहोरात्रिक एव पौषध: कर्त्तव्यः, तत्सामग्र्यभावे न कर्त्तव्य एव, न तु केवलरात्रिकः केवलदैवसिको वेति । तदनुरूपा एवान्ये च । ' एगराइं न हावए' इत्याद्युत्तराध्ययनोक्तवचनबलादहोरात्रिककेवलरात्रिकौ कर्त्तव्यो, न तु केवलदेवसिक इति । ततस्तदुपकाराय श्राद्धविधिलिखितावश्यकचूर्ण्याद्यागमोक्तः पौषधविधिपाठो २४ लिख्यते

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298