________________
विचार- विचाराः श्राद्धविधौ दिनकृत्याधिकारे ॥ ३४ ॥ एतेषामादौ अभिप्रायास्तु स्पष्टतमत्वादेव नोल्लेखिता इति ।
रत्नाकरः ।
अथ केचित् सुविहितपरंपरावन्तोऽपि गृहस्थाः सदारम्भमप्यारम्भमिव गणयन्ति परं तेऽनवबुद्धा ज्ञेयाः, यतोऽसदारम्भवतः सदारम्भस्य सुतमां विहितत्वात् । अयमेवाभिप्रायो लिख्यते
॥२५४॥ हेतुत्वात्तस्य
राजादेस्तु विधापयितुः प्रचुरतरभाण्डागारनगरमण्डलगोकुलादिप्रदानं जिनभवनक्षेत्रे वपनम् । तथा जीर्णशीर्णानां चैत्यानां समारचनं, नष्टभ्रष्टानां समुद्धरणं चेति । ननु निरवद्यजिनधर्मसमाचरणचतुराणां जिनभवनबिम्बपूजादिकरणमनुचितमिव प्रतिभासते, षट्जीवनिकायविराधनाभूमिखननदलपाटकानयनगर्त्तापूरणेष्टकाचयनजलप्लावनवनस्पतित्रसकायविराधनामन्तरेण न हि तद्भवति । उच्यते-य आरम्भपरिग्रहप्रसक्तः कुटुम्ब परिपालननिमित्तं धनोपार्जनं करोति, तस्य धनोपार्जनं विफलं माभूदिति जिनभवनादौ धनव्ययः श्रेयानेव, न ॐ च धर्मार्थं धनोपार्जनं युक्तम् । यतः " धर्मार्थं यस्य वित्तेहा, तस्यानीहा गरीयसी । प्रक्षालनाद्धि पङ्कस्य, दूरादस्पर्शनं वरम् " ॥ इत्युक्तमेव, न च वापीकूपतडागादिखननवदशुभोदर्कं जिनभवनादिकरणम् । अपि तु सङ्घसमागमधर्मदेशनाकरणव्रतप्रतिपत्त्यादिकरणेन शुभोदर्कमेव । षट्जीवनिकायविराधना च यतनाकारिणामगारिणां कृपापरवशत्वेन सूक्ष्मानपि जन्तून् रक्षयतामविराधनैव । यदाहु:-“ जा जयमाणस्स भवे, विराहणा सुत्तविहसमग्गस्स । सा होइ निज्जरफला, अज्झत्थविसोहिजुत्तस्स ॥ १ ॥ परमरहस्समिसीणं, समग्गगणिपिडगधरियसाराणं । परिणामिअं पमाणं, निच्छयमवलंबमाणाणं ।। २ ।। ” यस्तु निजकुटुम्बार्थमपि नारम्भं करोति प्रतिमा- 888 प्रतिपन्नादिस्तस्य माभूज्जिनबिम्बादिविधानमपि । यदाह - " देहाइनिमित्तंपि हु, जे कायवहंमि इह पयट्टंति । जिणपूआ कायवहंमि, ॐ तेसिमपवत्तणं मोहो ” । इत्यलं प्रसङ्गेन । इति श्रीयोगशास्त्रतृतीयप्रकाशकवृत्तौ ॥ ३५ ॥
888888888888888888
निर्माल्यविचाराः
अथ केचिदनिषेवितसुविहितगीतार्थचरणाः, अनवगतपरम्परागतागमतत्त्वाः प्रलपन्ति अहोरात्रिक एव पौषध: कर्त्तव्यः, तत्सामग्र्यभावे न कर्त्तव्य एव, न तु केवलरात्रिकः केवलदैवसिको वेति । तदनुरूपा एवान्ये च । ' एगराइं न हावए' इत्याद्युत्तराध्ययनोक्तवचनबलादहोरात्रिककेवलरात्रिकौ कर्त्तव्यो, न तु केवलदेवसिक इति । ततस्तदुपकाराय श्राद्धविधिलिखितावश्यकचूर्ण्याद्यागमोक्तः पौषधविधिपाठो २४
लिख्यते