Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 265
________________ विचार- | त्वधिकदोषोऽपि । इति श्राद्धविधौ ॥ २७ ॥ Jeel श्राद्धविधिरत्नाकरः तथा अन्त्यावस्थायां पित्रादीनां यन्मान्यते तत्सावधानत्वे गुरुश्राद्धादिबहुसमक्षमेव वाच्यं यद्भवन्निमित्तमियद्दिनमध्ये इयद्व्ययिष्यामि विचाराः Mol तदनुमोदना भवद्भिः कार्येति, तदपि सद्यः सर्वज्ञातं व्ययितव्यम् । स्वनाम्ना व्यये स्तैन्यादिदोषः पुण्यस्थानेऽपि स च महर्षेरपि हीनताहेतुः । यदार्षम्-" तवतेणे वयतेणे, रूवतेणे अ जे नरे । आयारभावतेणे अ, कुव्वई देवकिविसं ॥ १॥" धर्मव्ययश्च मुख्यवृत्त्या साधारण एव क्रियते । यथा यथा विशेषविलोक्यमानं धर्मस्थानं तत्र तदुपयोगः स्यात् । सप्तक्षेत्र्यां हि यत्सीदत् क्षेत्रं स्यात्तदुपष्टम्भे भूयान् लाभो ।।२५२ दृश्यते ।। इति श्राद्धविधौ ॥ २८ ॥ सर्वेष्वपि नियमेषु च सहसाऽनाभोगाद्याकारचतुष्कं चिन्त्यम्, तेनानाभोगादिनाऽनियमितबहुवस्तुग्रहणेऽपि नियमभङ्गो न स्यात्, किन्त्वतिचारमात्रम् । ज्ञात्वा त्वंशमात्रग्रहणेऽपि नियमभङ्ग एव जातु दुःकर्मपारवश्येन ज्ञात्वाऽपि भङ्गेऽग्रतो नियमः पाल्य एव धर्मार्थिना । प्रतिपन्नपञ्चमीचतुर्दश्यादितपोदिनेऽपि तिथ्यन्तरभ्रान्त्यादिना सचित्तजलपानताम्बूलभक्षणकियद्भोजनादौ यदा तपोदिनं ज्ञातं तदनु मुखान्तःस्थमपि न गिलति, किं तु तत्त्यक्त्वा प्रासुकवारिणा मुखशुद्धिं कृत्वा तपोरीत्यैव तिष्ठति तद्दिने च यदि भ्रान्त्या पूर्ण भुक्तस्तदा द्वितीयदिने दण्डनिमित्तं तत्तपः कार्यम् । समाप्तौ च तत्तपो वर्द्धमानं कार्यम् । एवं चातिचार एव स्यान्न तु भङ्गः । तपोदिनज्ञानानुसिक्थादिमात्रगिलने तु भङ्ग एव नरकादिहेतुः । दिनसंशये कल्प्याकल्प्यसंशये वा कल्प्यग्रहणेऽपि भङ्गादिदोषः । गाढमान्द्ये भूतादिदोषपारवश्ये सर्पदंशाद्यसमाधौ च यदि तत्तपः कर्तुं न शक्नोति तथाऽपि चतुर्थाकारोच्चारान्न भङ्गः । एवं सर्वनियमेष्वपि भाव्यम् । इति श्राद्धविधौ ॥ २९ ॥ तयणु हरिसुल्लसंतो, कयमुहकोसो जिणिंदपडिमाणं । अवणेइ रयणिवसियं, निम्मल्लं लोमहत्येणं ॥१॥ मुखकोशश्चाष्टपुटः प्रान्तनासानिश्वासनिरोधार्थं कार्यः । इति श्राद्धविधौ ॥ ३० ॥ नित्यं पर्वसु वा वर्षमध्ये कियद्वारं वा खाद्यस्वाद्यादिसर्ववस्तूनां देवस्य गुरोश्च प्रदानपूर्वं भोजनम् । इति श्राद्धविधौ ॥ ३१॥ तथा ऋणसम्बन्धे हि प्रायः कलहानिवृत्तेर्वैरवृद्धाद्यपि प्रतीतं तस्मादृणसम्बन्धस्तद्भव एव यथा कथञ्चिन्निर्वाल्यः । अन्यत्राऽपि ||२५२| व्यवहारे निजस्वस्याचटने धर्मार्थमिदमिति चिन्त्यं धर्मार्थिना । अतः सार्मिकैरेव सह मुख्यवृत्या व्यवहारो न्याय्यः । तत्पार्थे स्थितस्य

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298