Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
रत्नाकर 1888
विचार- निजस्वस्य धर्मोपयोगित्वसम्भवात् । म्लेच्छादिपार्श्वाल्लभ्ये तु यत्र कोऽपि पुण्योपयोगो न स्यात् । तस्य प्राप्त्यसम्भवे व्युत्सर्जनमेव युक्तम् । 88 व्युत्सर्गादनु प्राप्तं तु तत्सङ्घस्यैव धर्मार्थमर्प्यम् । एवं स्वकीयं गतमपि वस्तु शस्त्रादिप्राप्त्यसम्भवे व्युत्सृज्यम् । यथा तदुत्थं पापं न लगेत् । इत्थं युक्त्याऽनन्तभवसक्तं देहगेहकुटुम्बवित्तशस्त्रादि सर्वं पापहेतु विवेकिना व्युत्सर्जनीयम् । अन्यथा तदुत्थदुरितस्यानन्तैरपि भवैरनिवृत्तेः । इति श्राद्धविधौ ॥ ३२ ॥
॥२५३॥
तथा यथा तथा शपथादिकं न विदध्यात् । विशिष्य य देवगुर्वादिविषयं तदभिहितम् - " अलिएण व सच्चेण व, चेइयसम्मं करे जो मूढो । सो वमइ बोहिवीअं, अणंतसंसारिओ होइ । इति श्राद्धविधौ ॥ ३३ ॥
अथ निर्माल्यविचार:
यदि च प्राक्केनापि पूजा कृता स्यात्तदा विशिष्टान्यपूजासामग्र्यभावे तां नोत्सारयेत्, भव्यानां तद्दर्शनजन्यपुण्यानुबन्धिपुण्यानुबन्धस्यान्तरायप्रसङ्गात् । किंतु तामेव विशेषयेत् । यद्बृहद्भाष्यम्- " अह पुव्वं चिय केणइ, हविज्ज पूया कया सुविहण | ि सविसेससोहं, जह जह होइ तहा तहा कुज्जा ॥ १ ॥ निम्मल्लंपि न एवं, भन्नइ निम्मल्ललक्खणाभावा । भोगविणट्टं दव्वं, निम्मलं बिंति गीयत्था ।। २ ।। इतो चेव जिणाणं, पुणरवि आरोवणं कुणंति जहा । वत्थाभरणाईणं, जुगलिअकुंडलिअमाईणं ।। ३ ।। कहमन्नह एगाए, कासाइए जिणिदपडिमाणं । अट्ठसयं लूहंता, विजयाई वण्णिया समए ॥ ४ ॥ " यज्जिनबिंबारोपितं सत् विच्छायीभूतं विगंधं जातं दृश्यमानं च निःश्रीकं न भव्यजनमनः प्रमोदहेतु तन्निर्माल्यं ब्रुवन्ति स्म बहुश्रुताः । इति सङ्घाचारवृत्तौ । प्रद्युम्नसूरिकृतविचारसारप्रकरणे 8. त्वेवमुक्तम्- " चेइयदव्वं दुविहं, पूयानिम्मल्लभेयओ इत्थ । आयाणाई दव्वं, पूयारित्थं मुणेयव्वं ॥ १ ॥ अक्खयफलबलिवत्थाइ, संतिअं जं पुणो दविणजायं । तं निम्पल्लं जायइ, जिणकम्मंमि उवओगो य ॥ २ ॥ " अत्र ढौकिताक्षतादेर्निर्माल्यत्वमुक्तं; परमन्यत्रागमे प्रकरणचरित्रादौ वा क्वापि न दृश्यते, वृद्धसम्प्रदायादिना क्वापि गच्छेऽपि नोपलभ्यते यत्र च ग्रामादावादानादिद्रव्यागमोपायो नास्ति तत्राक्षतबल्यादिद्रव्येणैव प्रतिमाः पूज्यमानाः सन्ति । अक्षतादेर्निर्माल्यत्वे तु तत्र प्रतिमापूजाऽपि कथं स्यात्तस्माद्धोगविनष्टस्यैव निर्माल्यत्वमुक्तम् । " भोगविणङ्कं दव्वं, निम्मल्लं बिंति गीअत्या । " इत्यागमोक्तेरपि । तत्त्वं तु केवलिगम्यम् । इति श्राद्धविधौ । एते सर्वेऽपि
%%%%%
အာာာာာာာာာာာာာာာ
1124311

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298