Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
विचार
कठिना पृथ्वी शीतातपादिशस्त्रयोगे उपर्यङ्गलमेकं प्रासुका, अल्पकठिना त्वङ्गलचतुष्कं प्रासुका, अकठिनाऽङ्गलाष्टकम्, वासोर्वी रत्नाकरः।
चाऽधिकाऽपि प्रासुका, चतुष्पदादिस्थाने क्षात्रस्थाने च मुंडहस्तं प्रासुका, मलमूत्रातपोष्णांश्वादिना च यावती भाविता वह्निस्थाने च वह्निना यावती भाविता सा प्रासुका, महानगरस्थाने च हस्तमेकं प्रासुका, महानगरादिस्थानेऽपि द्वादशवर्षशून्ये मलाद्यभावात्सर्वा सचित्ता क्षीरवृक्षाधश्च यत्र जन्तूनामसञ्चारः सदा छाया तत्र मिश्रा, क्षीरवृक्षाणां मधुरत्वेनाप्यायकत्वात्, क्षीरवृष्टिवातशीतादिभिः शस्त्रत्वाच्च ।
अन्यत्र तु जनासञ्चारे छायाबहुले स्निग्धसजले उपरितनं रूक्षं रजो मुक्त्वा सर्वा सचित्ता, क्वापि क्वापि मिश्राऽपि, क्वापि रजोऽपि ||२६१॥
सचित्तम्, यद्यतयश्चैत्ये शालायां (च) प्रवेशे पादौ रजोहरणेन प्रमार्जयन्ति तत्क्वापि प्रदेशे सचित्तं मिश्रं वा रजो भविष्यतीति हेतोः । तथा सचित्ता वा भूमिः सचित्तांबुयोगे जाते कियत्कालं मिश्रा स्यात्ततो या सचित्ता सा सचित्ता, या चाचित्ता साऽचित्तैवेति । दृषत्स्वप्येवं यथार्ह वाच्यम् । इति श्रीमेरुतुङ्गसूरिकृतपिंडविशुद्धिवृत्तौ ।
तथा, जस्स सचित्तरुक्खस्स हस्थिपयपमाणो पिहुलो खंधो तस्स सव्वओ जाव रयणिप्पमाणा ताव सचित्ता भूमी एवं आणासिद्धं lael ॥ इति श्रीनिशीथचूर्णौ ॥ ५२ ॥
अथ षष्टारकादौ विषाग्निमेधैर्निर्बीजायां पृथिव्यां कृतायां पुनरप्यानादीनां यथोत्पत्तिर्भवति तथा लिख्यते
खारम्माई पुक्खलसंवर्ल्डता, जहा बहू मेहा । इय धम्मबीयहरणा, करणा य गूरूणमुवएसा ।। १॥ व्याख्या-यथा क्षाराम्लादयः पुष्करसंवर्तादयश्च मेघा बीजहरणा बीजकरणाश्च स्युः । तत्र क्षारमेघाम्लमेघाग्निमेघविषमेघाशनिमेघा युगान्तसमयप्रवर्षिणो यथोत्तरं सकलबीजप्लोषाय प्रवर्तन्ते । पुष्करावर्त्तमेघक्षीरमेघघृतमेघामृतमेघरसमेघाः पुनः कल्पस्यादौ सकलबीजाद्युत्पत्तये यथोत्तरं सम्भवन्ति । तदुक्तम्-" तदा च विरसा मेघाः, क्षारमेघाम्लमेघकाः । विषाग्न्यशनिमेघाश्च, वर्षिष्यन्त्यात्मसन्निभम् ॥ १॥ येन भावी कासः श्वासः, शूलं कुष्टं जलोदरम् । ज्वरः शिरोऽतिरन्येऽपि, मनुष्याणां महामयाः ॥ २ ॥ दुःखं स्थास्यन्ति तिर्यञ्चो, जलस्थलखचारिणः । भावी क्षेत्रवनारामलतातरुतृणक्षयः ॥ ३ ॥" अयि च-" तत्राद्यः पुष्करो मेघो, महीं निर्वापयिष्यति । द्वितीयः क्षीरमेघाख्यो, धान्यमुत्पादयि- ष्यति ॥ ४ ॥ तृतीयो घृतमेघाख्यः, स्नेहं सजनयिष्यति तुर्यस्त्वमृतमेघाख्यः, औषध्यादि करिष्यति ॥ ५ । पृथ्व्यादीनां रसकर्ता,
२६१।।

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298