Book Title: Vichar Ratnakar
Author(s): Kirtivijay Upadhyay, Vijayjjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
रत्नाकरः । 888
विचार- |8| रसमेघश्च पञ्चमः । पञ्चत्रिंशद्दिना वृष्टिर्भाविनी सौम्य ! दुर्दिना ॥ ६ ॥ " इत्यादि श्रीउपदेशरत्नाकरे नवमतरङ्गे ।। ५२ ।। अथ प्रतिक्रमणे कस्मिन् समये कर्तव्ये तल्लिख्यते
एषां कालस्तूत्सर्गेणैवमुक्तः । अद्धनिबुड्डे सूरे, सुत्तं कडूंति गीअत्था । इय वयणपमाणेणं, देवसियावस्सए कालो ॥ १ ॥ रात्रिकस्य चैवम्-आवस्ययस्स समए, निद्दामुद्दं चयंति आयरिया । तह तं कुणंति तह दस, पडिलेहाणंतरं सूरो ॥ १ ॥ अपवादतस्तु ॐ दैवसिकं दिवसतृतीयप्रहरादर्द्धरात्रं यावत् । योगशास्त्रवृत्तौ तु मध्याह्लादारभ्यार्द्धरात्रं यावदित्युक्तम् । रात्रिकमर्द्धरात्रादारभ्य मध्याह्नं यावत् । उक्तमपि-“ उग्घाडपोरिसिं जा राइयभावस्सयस्स चुन्नीए ववहाराभिप्पाया भणति पुण जाव पुरिमड्डुं ” । इति श्राद्धविधौ द्वितीयप्रकाशे ७६ पत्रे ॥ ५४ ॥
॥२६२॥
ဦး
अथ केचित् पाक्षिकोपवासादिकं पूर्णिमायां कुर्वते तच्च सिद्धान्तविरुद्धं यथा
पाक्षिकचातुर्मासिकसांवत्सरिकाणि पक्षाद्यन्ते च स्युः । आह-पाक्षिकं चतुर्दशयां पञ्चदश्यां वा चतुर्दश्यामिति ब्रूमः । यदि पुनः पञ्चदश्यां स्यात्तदा चतुर्दश्यां पाक्षिके चोपवासस्योक्तत्वात्याक्षिकमपि षष्टेन स्यात् । तथा च- “ अट्ठमछट्ठचउत्थं, संवत्सरचाउमासपक्खेसु । ” इत्याद्यागमविरोधः । यत्र चतुर्दर्शी गृहीता न तत्र पाक्षिकं यत्र पाक्षिकं न तत्र चतुर्दर्शी । तथा हि-" अट्ठमी चउद्दसीसु उववासकरणं' इति पाक्षिकचूर्णौ । 'सो अ अट्ठमीचउद्दसीसु उववास करेइ ' इत्यावश्यकचूर्णौ । ' चउत्थछट्ठट्ठमकरणं अट्ठमीपक्खचउमासवरिसे य त्ति व्यवहारभाष्यपीठे । अट्ठमी चउदसी नाणपंचमी चउमास इत्यादि महानिशीथे । व्यवहारषष्ठोद्देशके च " पक्खस्स अट्ठमी खलु, मासस्स य पक्खियं मुणेयव्वं, इत्यादि व्याख्यायां वृत्तौ चूर्णो पाक्षिकशब्देन चतुर्दश्येव व्याख्याता । तदेवं निश्चिनुमः पाक्षिकं चतुर्दश्यामेव । चातुर्मासिकसांवत्सरिके तु पूर्वं पूर्णिमापञ्चम्योः क्रियमाणे अपि श्रीकालिकाचार्याचरणत: चतुर्दशीचतुर्थ्योः क्रये । प्रामाणिकं चैतत्, सर्वसम्मतत्वात् । उक्तं च कल्पभाष्यादौ- " असढेण समाइन्नं, जं कत्थइ केणई असावज्जं । न निवारिअमन्नेहिं, बहुमणुमयमेयमायरियं ॥ १ ॥ " तीर्थोद्गारादावपि - " सालाहणेण रन्ना, संघाएसेण कारिओ भयवं ? । पज्जोसवणचउत्थी, चाउम्म च चोद्दसि ॥ १ ॥ चउमासपडिक्कमणं, पक्खिअदिवसंमि चउविहो संघो । नवसयतेणउएहिं, आयरणं तं पमाणंति ।। २ ।। ” अत्र
888888888888£
मेघ
विचार:
||२६२||

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298